________________
२१६
मार्कण्डेयस्मृतिः
प्रामाणिकं तदेव स्यात् विना तल्लेखनं तराम् ।
तुच्छानां लेखनं चेत्तु तत्रत्यानां दुरात्मनाम् ।। बहूनामपि किं तेन तन्न प्रामाण्यसाधकम् । यत्र यत्र महान्तो ये विद्याचारादिसद्गुणैः प्रसिद्धाः शिष्यवृन्दैश्च तत्र तत्र परास्तु ते । तल्लेखनं विना सर्व तुच्छानां लेखनं वृथा ।। प्रसिद्धानां लेखनं चेदादौ तत्परतः पुनः । (लि)तिपिस्तदप्रसिद्धानां कार्याय प्रभविष्यति यजमानलिपियस्मिन् पो पूर्व प्रवर्तते । प्रसिद्धानां लेखनं च तत्पत्रं पत्रमुच्यते ।।
लिप्यभावे ग्रामकर्तुस्तत्समानां महात्मनाम् ।
प्रसिद्धानां तु विदुषां तत्तुच्छलिपिमात्रतः ।। तत्पत्रमनृतं नूनं कार्यकृन्न भविष्यति । पश्चात्तल्लिपिकर्तारः राजदण्ड्या भवन्त्यपि ।।
अत्यन्तानुभवो नूनं न तु प्रामाण्यमृच्छति । आगमेन विशुद्ध न भोगो याति प्रमाणताम् ॥ कलापभोगशस्तो न भोगो मायासमुद्भवः । व्यामोहभोगो दाक्षिण्यभोगः पीडासमुद्भवः ।। पीडाभोगो भृतेर्भोगो दयाभोगस्तथा परः । उपाधिभोगश्चरमो न भोगा इति कीर्तिताः ।। अनागमं तु यो भुङ्क्त बहून्यब्दशतान्यपि । चोरवद्राजदण्डेन दण्ड्यो भवति किल्बिषी ।। स्वामिद्रोहं जनद्रोहं विना वैरं शुचं तथा । सञ्चारं कलहं चापि विनैव प्रबलाश्रयम् ।। स्याच्चेदनुभवः सोऽयं सम्यक् प्रामाणिको भवेत् ।
(.... ... ... .... .... ...) वच ।। सखिक्षोभं गुरुक्षोभं तत्तद्रन्ध्रनिरीक्षणम् । दुष्टाश्रयणमत्यन्तं तस्करानुभवस्स तु ।। विनैव न भवेन्नूनं तादृशानुभवः स तु । प्रभवेत् बाधकायैव न कीत्य श्रेयसे श्रियै ।। सुखाय वात्मनो ( ... .... ... )। ( ) व कथिता सद्भिः स्वामिलब्धप्रतिग्रहाः