SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पति सयोगविकला विधवाया वृत्तिष्वनधिकारवर्णनम् २१५ जीवनांशप्राप्तभूमि प्रविभागसमागताम् । क्रमागतां वा सामान्यविद्यमानां विना मतिम् ॥ न दानमाचरेद्भूमिं निखिलानां सगोत्रिणाम् । कस्मैचिद्याचमानाय भिन्नागोत्राय छन्दतः॥ पतिसंयोगविकलविधवानां तु सन्ततम् । न वृत्तिध्वधिकारोऽस्ति न ग्रहेषु धरासुवा।। जाते तु पतिसंयोगे तदूर्ध्व वर्षपञ्चकात् । अप्रजा विधवा सा चेत्तस्यै दधु स्तदीयकैः।। अन्नं वस्त्रं च यदि सा सुवृत्ता जनसम्मता। न तादृशो भवेत्सा च तस्यै नित्यं च तण्डुलान् ॥ वसनं त्रिपणक्रीतं मध्याह्न सेन्धनं स्मृतम् । तादृश्या दैवयोगेन जीवनांशोधरात्मकः॥ यदि लब्धस्स तु परं न देयकायकश्चन । विधवामात्रसंप्राप्त भूमिर्या साथ तज्जनान् ॥ यथाकथञ्चित्प्राप्नोति नान्या स्नानादिना क्वचित् । बहुज्ञातिषु तिष्ठत्सु शास्त्रशेषु महात्मसु। विभक्त ध्वविभक्तषु सुप्रसिद्धषु भूतले । सर्वाचार्येषु नितरां तेषु यः प्रवरः परः ।। तदाज्ञयैव सर्वेऽपि वर्तेरन्निति भूतले। मर्यादा कथिता सद्भिः गोत्रिणामप्यगोत्रिणाम् ।। बन्धूनामपि सर्वेषां मर्यादा सा तु केवला । परैः प्रकथिता नूनं नातिलब्ध्याऽखिलैस्तु सा । यस्मिन् देशेऽपि वा प्रामे प्रसिद्धः सर्वदिक्ष्वपि ।। विद्यमानो विद्यया वा श्रिया वा तस्य संमतिः॥ स्थिता चेत्तत्तु सम्यग्वै शक्यते नात्र संशयः । देशप्रसिद्धविदुषो यत्कार्ये संमतिः परा॥ तत्कार्य क्षमते कर्तु" तहानं च परादिकम् । यदि तस्वासंमतिः स्यात्तद्देशमामयोः परमा। विद्यमानस्य तत्कार्य न सिध्यत्येव सर्वथा । तत्त्राभट्य कसिद्धयर्थ तुच्छस्तग्रामवासिभिः॥ यद्यत्कृतं तन्निखिलं मृषैवेति सुनिश्चयः। तद्धस्तलेखनं यस्य कार्यस्यात्र प्रदृश्यते ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy