________________
ब्राह्मणस्यैवभूदानम्
२१६ तवृद्धि कारयित्वैव तन्मुखादतिगह्वरम् । यवा वनं भवेद्घोरं तदा कुर्यादुरात्मनाम् तद्वेश्मभूमिसंस्थानं न चेद्राज्ञो महद्भयम् । भवत्येव पुनस्तस्मिन् राज्ये दुर्भिक्षमप्यति
अनावृष्टिः सुमहती कलहः सुमहान् भवेत् । शिवदीक्षापराः शूद्राः कलौ प्रायेण सन्ततम ब्रह्मद्विषः शूद्रदीक्षा वर्धन्ते तत्र तत्र वै। तेषां तु बकवृत्तीनां ब्रह्मण्यो राष्ट्रवर्धनः ।
दीक्षां तदा तदा कुर्यात् न चेद्राष्ट्र विनश्यति।
राज्ञो ह्ययं सदा धर्मः प्रजानां परिपालनम् ।। तच्चवं हि प्रकथितं दुष्टनिग्रहपूर्वकम् । शिष्टानां पालनं सद्भिः धर्मशैब्रह्मवादिभिः । शिष्टाः सर्वेऽपि कथिताः ब्राह्मणा एव मुख्यतः । शिष्टशब्दो ब्राह्मणेषु मुख्यत्वेनैव नान्यतः तेषामेव सदादानपात्रता सा प्रचोदिता। तस्मात्ते सर्वदानानां मुख्यपात्राणि सन्ततम सर्वेषामपि वर्णानां एवं सत्यत्र कश्चन । विशेषो पत्र विज्ञेयः कन्यादानस्य चेत्पुनः ।। तत्तजातिसमुत्सन्नः प्रवरः शास्त्रवाक्यतः । तत्तजातिषु भूयश्च तदवान्तरजातिजः ।। तहानेषु प्रशस्ता वै तत्रापि च पुनर्महत् । बन्धुत्वमेव शस्तं हि श्रुतवत्वं च शीलता ।।
ब्राह्मणस्यैव भूदानम् तत्रापि सपिण्डादेः भूदानेऽप्येवमेव स्याब्राह्मणानां विशेषतः । ज्ञातित्वं वा सगोत्रत्व मादौ स्यादुत्तमोत्तमम् ।। तस्माज् ज्ञातौ सगोत्रे वा विद्यमाने विहाय तम् ।
भूमिं न दद्यादन्यस्मै दत्ता साऽपि न सिध्यति ॥ एवं सत्यत्र यो मोहाद्विमानेषु भूरिषु। सगोत्रेषुत्र ज्ञातिषु च श्रोत्रियेषु महात्मसु ।
आहिताग्निषु विद्वत्सु मूढधीः सोमयाजिषु ।
अग्निचित्स्वतिरात्राप्तोर्यामयाजिषु सत्स्वपि ॥ अग्निहोत्रिषु पुण्येषु वाजपेयादियाजिषु । कथं कुर्याद्भूमिदानं सर्वशास्त्रैकनिन्दितम् ।।
सगोत्री पुरतस्तिष्ठन् दानकाले समाहितः । न कुर्यात्तं निरोधं सः न निरुद्धः क्रियाश्चरेत् ॥