SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१२ मार्कण्डेयस्मृतिः ताडनीयः प्रबाध्यश्च चतुर्विशतिकान् पणान् । प्रदाप्यश्च विशेषेण दूरप्रेषणकर्मणा ॥ शिक्षणीयो विशेषेण सद्भिः सर्वेश्च केवलम् । विद्यागर्वेण शूद्रस्तु ब्राह्मणान् दूषयेद्यदि स राज्ञा निर्दयं बाढं सद्य आनीय सत्वरम् । चपेटिकाप्रदानाद्यौः शिक्षयित्वा विशेषतः॥ अष्टोत्तरशतान् दाप्यपणान्मासत्रयं पुनः । निगले योजनीयश्च धर्मज्ञेन महात्मना । विद्यागर्वेण शूद्रश्चेद्विप्रं न्यकृत्य साहसात् । ताडयेद्यदि तं राजा सद्यः श्रुत्वा भुजिष्यतः॥ ग्राहयित्वा ताडयित्वा सर्वयत्नेन भीतितः। पलायनपरं वापि कशाघातैरनेकशः॥ कारयित्वा महापीडां महानिगल(ड)बन्धनैः। मासषट्कं पातयित्वा तद्गर्वमखिलं यथा संप्रणश्येत्तथा कृत्वा सर्वस्वहरणाम्बिना । प्राणेन प्रेषयेदेनं न चंद्राष्ट्र विनश्यति ॥ यदि शूद्रास्तु बहवो धनिनो गर्वनिर्भराः । अन्तद्वेषा ब्राह्मणेषु विप्रभक्त्यानुमोदिनः ।। बहिर्वेषण नितरां ब्राह्मण्या इव केवलम् । आसमानाश्चोरकृत्याः पश्यतामनुमोदनात् अन्तरं समुपाश्रित्य कल्याणेषत्सवेषु वा । निमित्तान्तरमाश्रित्य प्रहारैरतिदारुणैः ।। ताडिताः प्रहृताश्चेत्तु वेदवादेषु निर्दयम् । रक्तप्रवाहपर्यन्तं करपादादिघट्टनैः॥ . शिरस्फोटनमू‘दिपर्यन्तैः कारिताः खरैः। तान् सर्वान् धार्मिको राजा विप्रताडनदिग्जयान् ॥ श्रुत्वैव सत्वरं सम्यक् प्राहयित्वा कुचेतसः । यथा तैः प्रहृता विप्रास्तस्माद्दशगुणाधिकम् उपानद्भिः कशाघात स्ताडयित्वातिनिर्दयम् । निगलैबन्धयित्वा च वर्षाधं वर्षमेव वा।। सर्वस्वहरणं कृत्वा सर्वोपायेन निर्दयम् । दयामकृत्वा सुतरां तदुपर्यतिपौरुषम् ॥ समाभित्यैव धर्मार्थ विरूपकरणादिभिः। उपवासकृशान् कृत्वा जलमूत्रनिरोधनैः॥ अत्यन्तं दुःखितान् कृत्वा पश्चाद्राष्ट्राद्विवासयेत्।। भवनान्यपि सर्वाणि कुख्याङ्कणमुखान्यपि । निर्मूलयित्वा नितरां तत्स्थले तत्परं पुनः । हैरण्डान्यतिशीघ्रण बीजान्यपि निरन्तरम् सदस्कुरप्ररोहाथं पातयेत्तत्पुरः स्थितः । एवं विप्रप्रहारस्य फलं त्विति निदर्शयन् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy