________________
२१०
मार्कण्डेयस्मृतिः श्राद्धकर्ता न ताम्बूलं तावदेव न खादयेत् ।
खादयेद्यदि मूढात्मा श्राद्धहम्ता भवेत् क्षणात् ॥ मोहादकृत्वा यः श्राद्ध ताम्बूलं यदि खादयेत । श्राद्धहन्ता भवेत्कर्ता रौरवं नरकं व्रजेत्
समाप्यनन्तरं तस्य ताम्बूलं न तु दुष्यति ।
श्राद्धं तत्तर्पणान्तं स्यात् तन्निवृत्ते तु तच्चरेत् ।। दर्शादिकेषु श्राद्धषु कृतेषु तदनन्तरम् । ताम्बूलचर्वणं शस्तं वृत्तत्वात्कर्मणः परम् ।। द्वितीयवारमुक्तिस्तु तहिनेषु निषिध्यते । अभ्यञ्जनरतिश्चैव वर्त्मनो गमनं तथा ॥
श्राद्धं कृत्वा तु यो मौढ्यात् मुक्त परान्नमतिमूढधीः ।
पितरस्तस्य ते क्रुद्धाः शापं दास्यन्ति दुस्तरम् ॥ अन्नश्राद्धं तु मुख्यं स्यादितरन्निखिलं परम् । अमुख्यमेव सर्वत्र यतोऽन्नेनैव तच्चरेत् पात्रेष्वेव प्रदातव्यं मुख्येषु सततं सुधीः। वेदार्थज्ञानचर्याभिः सर्वश्रोत्रियसन्ततौ ॥
तत्पात्र लभ्यते श्रीमत् नान्यत्र तु कथंचन । आदौ चर्याऽत्र कथिता सन्ध्यामन्ौककारिता । सन्ध्यामागेकशून्ये तु ब्राह्मण्यं तत्र वै भवेत्।
कुतः कथं केन कस्मात् इत्युवाच श्रुतिः परा ॥ तब्राह्मणसमीचीनः सर्वकर्मसु सन्ततम् । अत्यन्तावश्यको शेयस्तदभावेन किञ्चन। ब्राह्मणा जंगमं तीथं ब्राह्मणा जंगमं तपः । ब्राह्मणा जंगमा देवाः ब्राह्मणे विद्यतेऽखिलम् तस्मात्तु ब्राह्मणाः पूज्याः सर्वेषामपि सन्ततम् । देवताचार्यगुरवः शिक्षकाश्च पुरोहिताः
याजकाः सर्वलोकानां कारका भव्यसंपदाम् । तस्मात्सर्वात्मना ते वै नाधिक्षेपस्य देहिनाम् । ते पात्रभूता विशेयाः पुनर्वन्द्या यथासुराः। अब्राह्मणेभ्यस्त्वधिकाः विशेया ब्राह्मण ब्रुवाः।। तेभ्योऽधिका ब्राह्मणाः स्युस्तेभ्यश्च श्रोत्रियाः पराः । तेभ्योऽधिका वेदविदस्तेभ्यश्च ब्रह्मवादिनः॥