________________
परेह्नितर्पणवर्णनम्
२०६ तद्वगुण्यं नैव किंचित्पितरोऽस्य तन्दुमुखाः । अङ्गीकुर्वन्ति तस्मात्तु तदा स्तन्यं विधानतः पाककाले प्ररुदतः पाकान् जातस्तथाविधान् । पाययेदेव तत्प्रीत्यै तेन वैगुण्यनामकः ।। प्रत्यवायो नैव भवेदिति व्यासोऽब्रवीत्पुरा । श्राद्धान्ते किल बालानां तदपेक्षितवस्तुनाम् प्रदानमात्रतो नूनं गयाश्राद्धफलं लभेत् । स्वपत्नी वा स्वयं वापि भ्रातरो मातरोऽपि वा
तच्छिष्टभक्ष्यसर्वाघभक्षणाभावतस्तदा । मान्या यदि स्थिताश्चेत्तु स्वस्थास्सन्तस्तदास्यते ॥ पितरो नैव तृप्यन्ते प्राप्तकामाश्च नैव ते । तस्मात्सर्वे तहिनेऽस्मिन् सम्यग्भुक्तिं सुतृप्तिकाम् ॥ कुर्वीरन् पितृतृप्त्यर्थं न चेत्ते स्युर्हि दुःखिताः। तस्मिन् दिने तु वत्सानां पानायाखिलमेव वै॥ क्षीरं तूष्णी पितृतृप्त्यैव पाययेत्तेविचक्षणः ।
तेन मात्रेण ते प्रीतास्तां प्रीति वार्षिकी पराम् ।। तृप्तौ तुष्टिं च पुष्टिं च प्राप्नुवन्त्येव तादृशम् । तत्कर्म कथितं सद्भि मत्यमेतत्सुपावनम् ।। भोक्तृपात्राणि सर्वाणि खनित्वैव विनिक्षिपेत् । परेछु : पुनरुद्धृत्य दूरतस्तु विसर्जयेत् स्वगोचरं यदि भवेत् तत्पात्रं तदिने परम् । व्यर्थमेव भवेच्छ्राद्धं तस्माद्गोप्यं परं हि तत्
परेऽह्नितर्पणम् तत्परेऽह्नि पुनः कर्ता श्राद्धाङ्गतिलतर्पणम् । तद्विधानेनैव कुर्यादन्यथा व्यर्थमेति तत् ॥ दशैं तिलोदकं पूर्व पश्चाद्दद्यान्महालये । आब्दिकेन परं पूर्व परेऽहनि तिलोदकम् ।। श्राद्धे यावन्त उद्दिष्टा प्रातस्तानेव तर्पयेत् । श्राद्धप्रधानदेवानां तर्पणं स्यात्परेऽहनि । परेछु रुषसि प्रातस्तर्पणं यत्कृतं नरैः । अमृतं तद्भवत्येव द्वितीये प्रहरे पयः ।। तृतीये जलमेव स्याच्चतुर्थे रुधिरं भवेत् । परेछु रुषसि प्रातः तच्छेषैस्तिलदर्भकैः॥ तदा कृतपविण तर्पणं तद्विधीयते । यः परेऽहनि मूढात्मा पितृणां तर्पणं यतन् । न करोति विमूढात्मा पितृभिः सह मजति । रौरवे कालसूत्रो च यावदाभूतसंप्लवम् ।।