________________
सामाजनम्
२०८
मार्कण्डेयस्मृतिः नमस्कृत्य च साष्टाङ्ग कृतार्थोऽस्मीति भावयेत् ।
पादौ प्रक्षाल्य चाचम्य विप्रपूजां समाचरेत् ॥ ताम्बूलदक्षिणाभिश्च सर्वानेव प्रहर्षयेत् । यथाशक्त्या ब्राह्मणांश्च भोजयेदपि भक्तितः
पितृशेषभोजनम् पुत्रान् पौत्रांश्च बन्धूंश्च मित्राण्याप्तान् परानपि । शिष्टानिष्टानाप्तलोकान् भृत्यवानशेषतः ।। तत्प्रीतये स्वयं चापि तच्छेषं प्राशयेच्छुचिः।
मातृदारान् ज्ञातिदारान् भिक्षुता(का)नपि केवलान् । मृष्टान्नैरेव नितरां समृद्धः शक्तिसंभवे । स्वभुक्त्यभावे तेषां वै पितृणां तृप्तिरुत्तमा । न भवेदेव तस्मात्तु सम्यक् सर्वेश्च वस्तुभिः। तद्भुक्तशेषैर्न परैः कुर्याद्भुक्ति स्वबालकः
तत्प्रार्थितप्रदानैकपूर्वकं सुमुखः सुहृत् ।
न तस्मिन दिवसे कुर्याद्विमुखान बालकान् स्वकान् ।। उच्चैःस्वरेण नाक्रोशेत्ताडयेन्न तु भीषयेत् । बालावमानतोऽतीव पितरस्तेऽति दुःखिताः भवेयुभग्नमनसस्तदुपर्येव तन्मनः । कालान्तरे स्वक्रियायाः एते कतार इत्यपि ।।
तदुपर्यति तत्प्रीतिमहती सर्वदा स्थिरा ।
_ तिष्ठत्येव हि तस्मात्त तहिनेऽस्मिन् विशेषतः ।। स्वभुक्तशेषवस्तूनि तदतिप्रार्थितानि वै । प्रदद्यादेव सर्वाणि यानि तान्यधिकाशया ॥ तत्प्रदानकमाण तत्क्षणेन प्रवच्मि वः। गयाश्राद्धशतं तेन कृतमेव भविष्यति ।।
पाककालेऽपि वालानां रोदनस्योत्तरक्षणे ।।
पाकक्रियां तां निक्षिप्य मातरस्तान् प्रगृह्य च ॥ स्नानक्रियापूर्वशुद्धान् शुद्धवस्त्रप्रतिष्ठितान् । स्तन्येन पाययेदेव तावन्माण तेऽखिलाः।। क्षुत्तष्णारहिता भूत्वा परमानन्दनिर्भराः। पूर्णकामा नित्यतृप्तास्तच्चित्तास्तत्परायणाः प्रभवन्त्येव नितरां नष्टक्षुत्कं तथाविधम् । दृष्ट्वा स्तनंधयं सर्वे तदुपय॑तिहर्षितः ॥ म्वश्राद्धकारक कालात् निश्चित्यैव तथाविधाः । स्तन्यदानक्रियातुष्टा बालग्रहणसंभवम्