________________
२०६
मार्कण्डेयस्मृतिः
स्वधोच्यतां पित्रादिभ्यः भोक्तारश्च तथा पुनः
स्वति ततो कर्ता स्वधा चास्त्विति बाडबाः ॥
ततः स्वधा संपद्यन्तां इति कर्तावदी वदेत् । संपद्यन्तां स्वधा चेति प्रत्युक्तिस्तस्य केवलाः देवाः प्रीयन्तां विश्वे ते प्रि (प्री) यन्तां त इति द्विजाः । एवं पितॄणां स्यादेव चेति वाक्यद्वयेन च ॥
जलानि विप्रकरयोः तानुद्दिश्य तिलाक्षतैः । प्रदेयानि श्राद्धकर्ता सत्वरं तदनन्तरम् ॥
दक्षिणादानम्
हिरण्यं रजतं चापि दद्यात्तां दक्षिणां पराम् । पितुस्तु दक्षिणा देया द्विगुणा श्राद्धकर्मणि दक्षिणाः पान्तु वाक्येन पान्तु त्वां दक्षिणा इति ।
प्रत्युक्तिरिति विज्ञेया तद्वाक्यस्येति सूरिभिः ॥
वाजेबाजेति मन्त्रेण उत्तिष्ठत पितर इति । अनुगच्छन्तु मन्त्रेण तदुद्वासनमुच्यते ॥ दर्भैरुद्वासनं कुर्यात्स्पृशन्नेतान् पितॄन् सुरान् । एवं पूर्वोक्तमन्त्राभ्यां अनीवाजस्य तां जपेत् ॥ अनन्तरं प्रार्थनाख्यां ऋचं शाट्यायनीस्थिताम् । प्राञ्जलिः प्रपठेत्प्रह्वः तत्पुरस्तात्स्थितः स्वयम् ॥
ते अप्युदाहरिष्यामि सर्वेषां विशदाय वै । दातारो नोऽभिवर्धन्तां वेदाःसन्ततिरेव नः श्रद्धा च नो मा व्यगमात् बहुदेयं च नोऽस्त्विति । अन्नं च नो बहु भवेदतिथींश्च लभेध्महि ।।
याचितारश्च नः सन्तु मा च चाचिष्म कंचन । ऊहेन चैतयोरुक्तिरेवं वाच्या विशेषतः दातारो वोऽभिवर्धन्तां वेदाः सन्ततिरेव वः । श्रद्धा च वो मा व्यगमाद् बहु देयं च वोऽस्तु ।। अन्नं च वो बहु भवेदतिथींश्च लभध्वम् । याचितारश्च वः सन्तु मा च याचध्वं कंचन ||