________________
२०४
मार्कण्डेयस्मृतिः
पिण्डदानं पिण्डदानं करिष्येति श्राद्धीयं स पितुरित्यपि । तिलोदक ( ... ...
इति संकल्प्य विधिना पिण्डदानं समाचरेत् ।। पितुयज्ञविधानेन सर्वमेव यथा तथा । उच्छिष्टसंनिधावेव पिण्डदानं नचान्यतः॥ पिण्डपूजा विधानेन यथाशास्त्र समाचरेत् । नैवेद्यमत्र भक्ष्याणि फलान्यपि विशेषतः
ताम्बूलानि प्रकल्प्यानि पुष्पगन्धादिकानि च ।
चिरन्तिकायाः श्राद्ध तु सिन्दूरं कुंकुमादिकम् ॥ तथा सुगन्धद्रव्याणि देयान्येव विशेषतः । वस्त्राभरणजातानि पिण्डानां तु पृथक पृथक्
देयानि शास्त्रविधिना पितरः पिण्डरूपिणा । कर्तव्याश्च नमस्काराः ये कामा अत्र केवलम् ॥ वक्तव्याः प्रार्थनीयाश्च वरदाः पितरस्तथा ।
स च श्लोकोऽत्र वक्तव्यः गयगीतः पुराणगाः॥ शमीपत्रप्रमाणेन पिण्डं दद्यात् गयाशिरे। उद्धरेत्सप्तगोत्राणि कुलमेकोत्तरं शतम् ॥ अस्य श्लोकस्य पठनात् श्राद्धमेतत्सुपावनम् । गयाश्राद्धसमं भूयादित्याह भगवान् गयः
यजमानोऽपि तत्काले इमे पिण्डा मयार्पिताः । गयापिण्डसमा भव्याः भूयासुरिति बाडबाः ।। ब्रुवन्त्वद्य भवन्तश्चेति वाक्यान्तेऽपि बाडबाः। गयापिण्डैकतुलितः भवन्त्विति वितीर्य तम् ।। वदेयुः कृपया सर्वे भोक्तारः परया मुदा । ततः कर्ता युष्मदनुज्ञया पिण्डानहं द्विजाः ।।