SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०३ विकिरान्नदानवर्णनम् दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम् । विष्णुस्थाने तथाप्येकं मन्त्रां तत्समुदीरयेत् ॥ वैष्णवं परमं भव्यं श्राद्धकर्मणि संस्थिते । असंशयो भवेद्विष्णुर्मोजसाधनमव्ययम् ।। पितृणां च वरं श्रेष्ठं विकिरान्नं च वैष्णवम् । एभिर्मन्त्रौ किरान्नं दत्वा तत्पुरमेव वै उच्छिष्टपिण्डं दद्याञ्च तन्मन्त्रोण यथाविधि । तिलान् दर्भान्समास्तीर्य भूतले पत्रसन्निधौ तन्मन्त्रं संप्रवक्ष्यामि कर्मणस्तस्य संप्रति । ये अग्निदग्धा येऽनग्निदग्धाः ये वा जाताः कुले मम ।। भूमौ दत्तेन पिण्डेन तृप्ता यांतु परां गतिम् । अग्निदग्धानग्निदग्धेभ्योऽस्मत्कुल (प्रसूत ) मृतेभ्यः॥ अयं पिण्डः स्वधा नम इत्येवं तत्र निक्षिपेत् । अग्निदग्धानग्निदग्धाः मार्जयन्तां तिलोदकम् ॥ एतद्व इति तहत्वा तिलसंमिश्रितोदकम् । पादौ प्रक्षाल्य चाचम्य सपवित्रकरः पुनः॥ उचिटभारभ्योऽन्नं दीयतामित्येव वदेच तान् । तद्वाक्यं तु तथा प्रोक्तं यजमानेन ते द्विजाः॥ भोक्तारश्च तदा कुर्यु रेतेनैव (१) स्व मन्त्रतः । यजमानकुले जाता दासा दास्योऽन्न काक्षिणः ।। सर्वे ते तृप्तिमायान्तु मयादत्तेन भूतले ॥ उत्तरापोशनम् अमृतेतेति च मन्त्रोणोत्तरापोशनं परम् । यजमानः स्वयं दद्याद्विप्रहस्तेषु सादरम् ॥ तत्पीत्वा तेऽपि मन्त्रोण तेनैवान्तं समाप्नुयुः। श्रद्धायामित्युत्तराणि यजूंषि स्वयमेव वै यजमानो जपेदेव पांगुष्ठेनेति तज्जपेत् । यजमानोऽथ भूयश्च संकल्पं सम्यगाचरेत् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy