________________
२०२
मार्कण्डेयस्मृतिः भावयेदेव मनसा पुनरेकं वदेत्तदा । वचनं तत्पुराणस्थं मन्त्ररूपमतीव च ॥ गयायां धर्मपृष्ठेषु सदसि ब्रह्मणस्पतेः। गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम् ।।
एवमुक्त्वा गयगयेत्येवं सम्यक् समुच्चरेत् ।
गयागयेति वा ब्रूयात् काशीकाशीति वाऽथवा ॥ वटं तं वाथवा बिन्दुमाधवं संस्मरेत्यपि । एतत्सर्व श्राद्धमात्रे कर्तव्यत्वेन केचन ॥
जगदुः क्षत्रियादीनां स विप्राणामिति स्म वै।
अतः कृताकृतं प्रोक्तं भोजने श्राद्धकर्मणि ॥ वृत्ते याच्छ्राद्धकर्ता गायत्री वेदमातरम् । अहमस्मीति सूक्तं च भोजनादौ क्रमेण तत् वेदाक्षरैकरहितश्राद्धकर्ता तु केवलम् । नामत्रय जपं कुर्वन् ईशानं तं हरिं स्मरन् ।
आतृप्त्युपविशेत्तेषां तदनन्तरमप्युत ॥
ब्राह्मणभोजनानन्तरकृत्यम् मधुत्रयं जपित्वाथ पक्षन्नमीमदन्त्वथ । मधुमध्विवि संपन्नं कर्ता ब यादतन्द्रितः ॥ सुसंपन्नमिति प्रोक्ते एतच्छ्राद्ध विशेषतः । संपादितेषु पक्वेषु पदार्थेष्वपि वस्तुषु ।
य इष्टः सोऽद्य प्रष्टव्यः इति संप्रार्थयेत् द्विजान् । सर्व संपूर्णमित्येव प्रोक्ते भोक्तृभिरप्यति ॥ तृप्ता; स्थेति द्विवारं वै संबुद्धयन्तेन तान् वदेत् ।
विश्वान् देवान् पितृश्चापि सति विष्णुं तमप्युत ॥ तृप्ताः स्म इति तैरुक्ते वन्मंत्रं समुदीरयेत् । असोमपाश्च ये देवा यज्ञभागविवर्जिताः
विकिरम्
तेषामन्नं प्रदास्यामि विकिरं वैश्वदैविकम् । ततः परं पैतृकेऽपि स्थाने मन्त्रमिदं स्मृतम्
तदुच्चरेच्च विधिना तत्कर्मणि तदा स्वयम् । असंस्कृत प्रमीता ये त्यागिन्यो याः कुलस्त्रियः॥