SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्राद्धकार्याङ्गक्रमवर्णनम् २०१ हूयते च पुनर्वाभ्यां स मे विष्णुः प्रसीदतु । ब्रह्मार्पणं ब्रह्म हविः ब्रह्मानौ ब्रह्मणा हुतम्। ब्रह्मव तेन गन्तव्यं ब्रह्मकर्म समाधिना। यशेश्वरो हव्यसमस्तकव्यभोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र ॥ तत्सन्निधानादपयान्तु सद्यो रक्षास्यशेषाण्यसुराश्च सर्वे । त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च यज्वनः । हव्यकव्यभुगेकस्सन् पितृदेवस्वरूपधृक् ॥ कर्ता क्रियाणां स स इज्यते क्रतुः स एव तत्कर्मफलं च तस्य । मृगादियत्साधनमप्यशेष हरेर्न किञ्चिद्व्यतिरिक्तमस्ति ।। देशात्कालात्तथा मन्त्रतन्नोभ्यो हबिषस्तथा । कर्तृभ्यश्चापि भोक्त्तृभ्यः द्रव्याद्वा न्यूनतस्तथा ॥ अतिरिक्तादिदं कर्म यच्छिद्रमविकलं तथा । सामं च सगुणं भूयादित्येवं यूयमद्य वै।। वदतेति नमस्कुर्यात् तेऽप्यनन्तरमेव वै । तथास्त्वित्येव च महत्प्रीत्यैव निखिला अपि । प्रवदेयुः सदस्यास्ते भोक्तारश्च समष्टितः । पुनश्च यजमानोऽथ युष्मद्वाक्यमहत्वतः ।। सर्वेवैकल्यशून्येन श्राद्धनानेन केवलम् । गयान्नश्राद्ध तुल्येन अक्षय्यप्रीतितृप्तितः ॥ पुनरावृत्तिरहितब्रह्मलोकाप्तिर स्त्विति । भवन्तो वै ब्रु वन्त्वद्य तद्वाक्यसमनन्तरम् ।। तथास्त्वित्येव सर्वे ते प्रवदेयुर्द्विजा अपि । तद्वाक्यश्रवणात्पश्चान्नमो देवेभ्यो इत्यपि ॥ स्वधा पितृभ्य इत्येवं बृहते विष्णवे नमः। ओं तद्ब्रह्मति नवकं यजुषा(वृ)वृन्दमप्यथ यजमानो वदेत्सर्व श्रद्धायामिति पञ्चकम् । जपेत्तु प्राञ्जलिर्भूत्वा ब्रह्मणि मात्मेति तं जपेत् ॥ परिषेचनतः पश्चात् भूय एव तदेव हि । धृतापोशनपाथस्सु तेषु भोक्तृषु सत्वरम् ।। इमं पुराणवाक्यं च प्रवदेत्तञ्च वच्यहम् । ईशानविष्णुकमलासनकार्तिकेय वह्नित्रयार्करजनीशगणेश्वराणाम् । क्रौञ्चामरेन्द्रकलशोद्भवकाश्यपानां पादान्नमामि सततं पितृमुक्तिहेतून् ।। इत्युक्त्त्वाथ नमस्कृत्य चेयं भूमिर्गयेति वै । एते गदाधरा विप्रा वटच्छायेत्यमीत्यपि ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy