________________
२००
मार्कण्डेयस्मृतिः
आपोशनम् तागापोशनजलप्रदानं सांप्रतं स्मृतम् । तत्प्रदानानन्तरं वै अमृतोपेति मन्त्रतः॥ तत्प्राशनं प्रकथितं यहत्तं तेन पाथसः । यद्यन्यप्राशनं कुर्युः तहत्ताच्छंबरं तु ते॥ स्वयं तत्पितरः सोऽपि सर्वे स्वपितरः क्षणात् । कालसूत्रैकशरणाः प्रभवन्ति न संशयः ततस्तु सर्वे भोक्तारः कदाचित्तादृशं खरम् । न कुर्युरेव सततं कर्म करं द्विजोत्तमाः ।।
श्रद्धायामिति मन्त्राणां प्राणाहुतिकृतौ तदा ।।
यजमानो जपं कुर्यात् प्रतिस्वाहाकृतौ द्विजाः॥ तदाहुतिक्रमेणैव प्रकुर्यविधिना द्विजाः। भस्मनो यदि मर्यादा न कृता चेद्यदा तदा॥ पात्रग्रहणमेतेषां वामहस्तेन चोदितम् । आभुक्त्यन्तं ततो वाच्यं यथासुखमिति स्म च
जुषध्वमिति तत्पश्चात् श्रावयिष्येति वैष्णवान् । पावनानपि रक्षोन्नान् भुञ्जीयानिति च क्रमात् ॥ स्वाश्रावयेति चाप्युक्तस्तथा कुर्याद्यथामति । यथाशक्त्ति यथोत्साहं ब्राह्मणान् तत्र निक्षिपेत् ॥
अभिश्रवणम् अभिश्रवणकार्याय यावद्वेदत्रये तथा । केचिदत्र पुनर्दत्ते जाते तत्परमेव वै ॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव नमोनमः
इति मन्त्रं समुच्चार्य पुनरन्यान् पुराणगान् ।
मन्त्रान् वदेयुस्तद्भक्त्या ते सर्वत्र कृताकृताः॥ अथाप्युदाहरिष्यामि तानेतानपि वै क्रमात् । सप्त व्याधा दशार्णेषु मृगाःकाराञ्जने गिरौ चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे । ये स्म जाताः कुरुक्षेत्र ब्राह्मणा वेदपारगाः प्रस्थिता दीर्घमध्वानं यूयं तेभ्योऽवसीदथ । अमूर्तानांच मूर्तानां पितृणां दीप्ततेजसाम्
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् । चतुर्भिश्व चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ॥