________________
पितृनिमित्तस्य पक्वान्नस्य प्रशंसावर्णनम् १६६ एतद्वो हव्यमित्युक्त्वा गयेयं भूरिति स्म च ।
साक्षाद्गदाधरा एते ब्राह्मणाश्चेति भावनाम् ।। कृत्वा तुष्टेर्दास्यमानं दत्तं चाक्षयतुष्टये । यथाभागं स्वाहा हव्यं तत्सन्न म मेति वै ॥
द्विर्वदन् साक्षतान् दर्भान् संगृह्य जलपूरितान् ।
जलप्राधान्यतो भूमावुदपार्वे विनिक्षिपेत् ॥ गयायां रुद्रपादादिदत्तमस्त्विति भक्तितः । ब्रुवन्तु च भवन्तोऽद्य गयायां दत्तमस्त्विति वाक्यद्वये च संजाते ये देवा इति वै मनुम् । प्रजपेत्तु विशेषेण आगच्छन्विति तत्पुनः पितृस्थाने तथा सर्व पूर्ववच्च समाचरेत् । विशेषोऽत्र पुनस्सोऽयं स्वधा विष्णो ततः पुनः कव्यं रक्षेति तत्प्रोक्त्वा पितृसंबोधनं परम् । एतद्वः कव्यमित्येव देवताः पितरोऽत्र हि इदमन्नं कव्यमेव ब्राह्मणो हवनीयके । दत्तं च दास्यमानं चातृप्तेस्तत्सर्वमित्यपि ॥ गयेयंभूरिति समं अन्नं ब्रह्माहमित्यथ । भोक्ता ब्रह्मति वै ध्यात्वा रजतं पात्रमित्यपि॥ वटच्छायेयमित्येव भावनापूर्वकेण वै । पितृभ्यो नामगोत्रादियुक्त भ्य इति पूर्ववत् ॥ उक्त्त्वाखिलं वाक्यजालमिदमन्नं ततः पुनः। साक्षादमृतरूपं तदातृप्तेरिति तत्परम् ।। अक्षय्यतृप्तये चेति शिष्टं सर्व यथा पुरा । स्वधाकरमिति शेयं कांश्चिदत्र विशेषकान्॥
भस्ममर्यादादिकान् चापि कुर्यादेव विधानतः ।
ये चेह पितरश्चेति मन्त्रं सम्यक् समुच्चरेत् ।। सर्वेषामपि पात्राणां स्वयं भूयो विधानतः । कूर्चेन प्रोक्षणं कृत्वा परिषिच्य च तेन वै॥ भोक्त्राऽप्येवं कारयित्वा तदापोशनशंबरम् । अर्चनापात्रगं यत्तत् कुर्याद्विप्रकरस्थितम् ।। एतत्कर्मैव नितरां सुपुत्रत्वप्रकारकम् । तत्कर्तुः कृतिनोऽतीव पितृनिष्क्रियदायकम् ।। एतदर्थं पुरा सर्वे पितरस्त्वस्य जन्मनि । सर्वस्वदानकर्तारो ह्यभवन्नतिहर्षिताः॥