________________
१६८
मार्कण्डेयस्मृतिः
परिवेषणक्रमः परिवेषणमेव स्यान्न तदन्यत्र तच्चरेत् । अन्नमादौ ततः प्रोक्त पायसं तदनन्तरम् ।।
भक्ष्याणि च फलान्येवं शर्करामधुमाक्षिकम् ।
शाकानि सार्षपाख्यानि शाकानि तदनन्तरम् ॥ पश्चालवणशाकानि घृतस्नेहैकजान्यपि । अपकरचितान्येवं रसायनमुखान्यपि ॥ नानाविधानि चित्राणि लवणं न न एव च । घृतं दधि जलं पश्चाच्चरमे सूप ईरितः॥ परिवेषणतः पश्चात् सूपस्य न किमप्युत । गायत्रीप्रोक्षणात्पश्चात् भक्ष्याणां पातनात्परम्
दर्भानुपरि संस्थाप्य तस्य शुध्यर्थमेव वै॥
अन्नसक्तपठनम् अन्नसूक्ताख्यमन्त्राणां पठनं सांप्रतं शिवम् ।
करिष्य इति संकल्प्य नमो ब्रह्मण बादितः॥ . राक्षोनादिमहामन्त्रान् पावनांश्चापि वैष्णवान् । प्रसरेदन विधिना ब्राह्मणैर्बहुभिः सह
अहमस्मीति सूक्तं तदन्नाख्यं पाठनाच्छिवम् । पितृप्रीतिकरं श्रीमद्राक्षोन तज्जपेच्छुचि ॥ सह वा इति तद्वाक्यं राक्षोघ्नं कथितं बुधैः ।
किं स्विदासीदथैव स्यादाब्रह्मन् श्रीप्रदायकम् ॥ पठनीयं विशेषेण यजमाननिये परम् । सामाराधनकल्पेन पृथग्दानं निगद्यते । पृथक् च प्रोक्षणं कार्य पृथक् च परिषेचनम् । यजमानः स्वयं कृत्वा तदन्नस्य ततः परम् प्रदान कार्यमेव स्यात् सर्वं तेनैव मन्त्रतः । पृथिवी तेन विधिना भक्तमादौ स्वहस्ततः
तद्धस्तस्य स्पर्शयित्वा भक्ष्याणां तदनन्तरम् ।
फलानामपि शाकानां सर्वेषां च यथाक्रमम् ॥ घृतस्य परमान्नस्य जलपात्रस्य चैव हि । स्पर्शयित्वैव तत्पश्चाहवान् संबुध्य तत्परम् ।।