________________
स्नुषापाकवर्णनम्
१६७ यथाग्नौ करणं प्रोक्त स्वधेयमिति मन्त्रतः । तच्छिष्टदानं कथितं तत्पात्रे तेन कर्मणा ।। श्राद्धकर्मण्येतदेव प्रधानं स्यात्तथा पुनः । तच्छिष्टं पिण्डकार्याय प्रधानं स्यादतो यदि तन्नष्टं चेत्तदा श्राद्धं नष्टमेव भवेद्धृ वम् । पुनः श्राद्धं च विहितं परेऽह्नि विधिनैव हि अग्नौ करणलोपे वा स्वधेयमिति यत्पुनः । हविःशेषप्रधानं तत् तस्य लोपेऽपि चेद्यथा तच्छिष्टपिण्डसंयोगलोपे वा श्राद्धनामकम् । कमतन्नाशमायाति तस्मादेतत् त्रयस्य च यथैव स्याच्च संपूर्तिस्तथा कुर्यात्तु पैतृकम् । पत्नीहस्तसमानीत भक्त नैव विचक्षणः ॥
अग्नौ करणकर्माख्यं कुर्यात्कर्म विधानतः॥
स्नुषापाक: स्नुषाहस्तैकरचितः पाकोऽमृतसमो मतः । स्वेवा स्नुषा कर्तृ स्नुषा तुलिने पाककर्मणि ॥ यद्यते देवयोगेन तत्कार्ये शक्तिशून्यके । तत्पाकयोग्यकार्येषु स्यातां भक्ति समन्विते शक्त ते यदि तत्कर्मकरणे जामितापरे । स्यातां तन्जन्म वैय्ययं श्वगर्दभसमं भवेत् ॥ तस्मात्प्रीतः श्वशुरयोः श्राद्ध यत्नेन भक्तितः । यथाप्राणं पाककर्मनिरताः स्युः पतिव्रताः श्वशुरश्राद्धकार्येषु पाकप्राधान्यकेषु वै । या श्रमं कुरुते भक्तथा साऽग्निष्टोमफलं लभेत् ।।
या स्वस्थैव वृथा गर्वात् तत्पाकविमुखा भवेत् । भ्रणहत्यामवाप्नोति प्रतिजन्मनि दुर्भगा॥ वन्ध्या दरिद्राऽऽथवा कररूपिणी च प्रजायते ।
पाकाशक्येऽपि वा तूष्णीं स्नात्वा वा नियता शुचिः॥ परिवेषणमात्रं वा कुर्यादित्येव सा श्रुतिः । स्नुषाहस्तकपूतं तं पूतं पुत्रकरेण च ॥ मन्त्रप्रोक्षणपूतं च तदग्नौ करणेन च। अतिपूतमतिश्लाध्यं स्वधेयमिति मन्त्रतः ॥ निक्षेपणेन च पुनः पूतं तत्प्रोक्षणेन च । अभिधारणतोऽतीव पूतं गायत्रिया ततः ॥ प्रदानकालतद्गायत्रिया पूतं पुनस्तथा । परिषेचनपूतं च यजमानस्य तत्परम् ॥ तदन्नममृतं शेयं दशपूतं तदा तदा । मन्त्रितं कुशपूतं च यजमानस्य हस्ततः॥ तदन्नं पितृणां तृप्तिहेतवे वै प्रकल्पते । दशक्रियापूतमिदं श्राद्ध कर्म न चेतरत् ॥ एतद्दशक्रियालोपे तन्न श्राद्धं प्रचक्षते । स्वधेयमिति निक्षिप्ते त्वग्नौ करणशिष्टके ॥