________________
१६६
मार्कण्डेयस्मृतिः गृह्णामीति वदेत्पश्चाद्वयोरप्येवमुच्यते । तदूहेनैव विधिना दर्भस्तं शोधनं भवेत् ।। पितृपात्राणि संपन्नानित्येवं प्रवदेदपि। सुसंपन्नानीति पश्चात्तदुक्तोऽयं स्वयं पुनः॥ स्वधाय॑ इति चोक्त्वाथ त्रिवार तदनन्तरम् । स्वा इत्युत्तरे जाते तदावाहनमाचरेत्
उशन्तस्त्वेति मन्त्रेण ह्यायन्तु न ऋचा तथा ।
सावधाना भवन्तु त इत्युक्त तदनन्तरम् ॥ समानमन्यन्निखिलं पूर्ववत्कथितं तु वै । मण्डलानामर्चनं च तैरुक्तस्तु समाचरेत् ॥ पूर्ववन्मण्डलस्यापि करणं त्वत्र चोदितम् । पात्राणि मण्डलेष्वेषु प्रक्षिपेत्कानि तानि वै यदि पात्रं पानसं चेत्पितॄणाममृतं भवेत् । पालाशं पय इत्युक्तं यद्यौदुम्बरनिर्मितम् ॥
गुडेन तुलितं तत्स्यात् पौन्नागं दाधिकं भवेत् ।
रम्भाऽऽज्येन समाः प्रोक्ताः पनसस्तूत्तमोत्तमः ।। शलाटुफलपत्रैश्च छायाकाष्ठमृदादिभिः । अत्यन्तपल्लभाशस्ता निरन्तरसुतृप्तिदा । वस्तुभिः सकलैर्दिव्यै गर्गोधूमतिलखड्गकैः । मधुमाषमहाद्रव्यैः पनसोऽयं विशिष्यते ॥ सर्वथा पनसद्रव्यदुर्लभे तु यदा भवेत् । यं कंचन पदार्थ वा पनसं भावयेत्तदा ।। भावयित्वा वदेच्चापि पनसोऽयं प्रकल्पितः । मयाथा लभमानेन पदार्थोऽयमिति स्म वै
तावता पितरस्सर्वे नित्यतृप्ताः स्युरेव ते ॥
स्वधाकारः
अग्नौ करणशिष्टान्नमादायाथाज्यमेव च । हस्तोदकं स्थानविप्रादीनां तेषां यथाविधि संप्रदाय तदाज्यं वै तेषु पात्रेषु तत्क्रमात् । अभिघार्यान्नमादाय स्वधेयमिति निक्षिपेत् तत्पुनस्त्वभिधार्याथ दत्वा हस्तोदकं पुनः । मेक्षणं प्रहरेदग्नौ तूष्णीमेव समन्त्रतः ॥
यद्य को ब्राह्मणश्चेत्तु त्रयाणामपि केवलम् ।। तस्मिन्नेवाखिला धर्माः प्रयोज्या इति वै मनुः ।। एवमेव पुनः पात्रे दैविके केवलाऽऽज्यतः । अभिधारणमेवस्यात् तथा सोदकमेव च ।।