________________
पितृणामयदानवर्णनम्
१६५ अर्घ्यदानम् या दिव्या इति मन्त्रेण विश्वेदेवा इदं शिवम् । वो अय॑मिति लौकिक्या वाचाय॑ समुपाहरेत् ॥ अस्त्वर्घ(य) इति तेनोक्तो हस्ते शुद्धोदकं पुनः ।
दत्वा भक्क्याऽर्चत प्रार्चतेति पश्चाच्छिवाक्षतैः॥ अर्चयित्वाऽथ गन्धाश्च व्याहृतीभिरथाऽक्षतान् । धूपदीपौ चोपवीतद्वयं वस्त्रद्वयं पुनः।। कुशद्वयं भूषणानि पात्र शक्त्या सुचेतसा । प्रदत्तमिति सुस्थेन भावयेदेव सन्ततम् ।।
शक्त्या चेद्देयमेव स्यात् शक्त्यभावे तु भावना ।
सर्वत्र व्याहृतिज्ञेया दानमात्रेण सर्वतः ।। संपूर्णमर्चनं चेति वाक्यमुक्त्वा ततः परम् । संकल्पसिद्धिरस्त्वेवं भवन्तः प्रअ वन्त्विति ॥ तस्योत्तरं तथैव स्यादस्तु संकल्पसिद्धिरुत्तमा । यथाविध्यचितं चेति वाक्यं प्रत्युत्तरं ततः अस्त्वित्येव च संप्रोक्तं ततो भवदनुज्ञया। पित्र्येऽर्चनं करिष्येति समनुज्ञाप्य तं ततः॥ कुरुष्वेति तथाऽऽझतः पितृणामर्चनं चरेत् । पूर्ववन्निखिलं चात्र कथितं शास्त्रवेदिभिः॥
परं त्वियान विशेषोऽत्र कथितः शास्त्रवर्मना। अग्नेर्दक्षिणतो वापि द्विजानां पुरतोऽपि वा ॥ पात्रासादनकर्म स्यात् त्रीणि पात्राणि चात्र वै ।
स श्राद्धार्थे (?) प्रयोज्यानि पवित्रेषु कृतेषु हि ।। उपरिष्टादधस्ताच प्रोक्ष्योद्धृत्य चपूर्ववत् । तिलान् विकीर्य तूष्णीकं तेषु पात्रेषु तत्परम् पूर्ववजलमापूर्य तिलोऽसीति च मन्त्रतः । पितरं नामगोत्राभ्यां समुच्चार्य ततः पुनः ।। __इमान् लोकान् प्रीणया हि नः । स्वधा नम इत्येव तिलांस्तत्र विनिक्षिपेत् ।
तत्पात्रयोः शिष्टयोश्च पूर्ववत्तेन तास्तरान् ।। मन्त्रेण विन्यसेदेव तदूहेनैव वाक्यतः । भृगराजसमुत्थानि पत्राण्यत्र विशेषतः॥ दर्भपत्रैः पूरयेच स्वधा नम इतिस्म च । प्रतिपात्रजपः कार्यः पित्रे ते जुष्टमित्यथ ॥