________________
१६४
मार्कण्डेयस्मृतिः यवोऽसीति च मन्त्रेण यवांस्तत्र विनिक्षिपेत् । अर्चत प्रार्चतेत्येव चन्दनं तत्र निक्षिपेत् तुलसीदर्भपत्राणि तत्र निक्षिप्य तत्परम् । ओं स्वाहानमः (?) प्रोक्ता तत्परमेव वै॥ विश्वेभ्यो देवेभ्यो जुष्टं गृह्णामि मन्त्रतः । देवपात्रे संपन्नेति वदेत् कर्ता द्विजाग्रतः॥ सुसंपन्नेति तत्प्रोक्त स्वाहााविति तत्परम् । द्विवारमुच्चरेत्तस्य स्वादित्युत्तरं ततः
___ आवाहनम् भोक्ता वदेदयं कर्ता विश्वान् देवान् भवत्स्वहम् । आवाहयिष्येत्युक्त्त्वैवं आवाहय वचः परम् ॥ विप्र आवाहयेद्विश्व(श्वे?)देवान् तस्मिन् यवैः कुशैः।
विश्वेदेवासमन्त्रेण विश्वेदेवासनेन च ।। स प्राञ्जलिस्ततो भूत्वा मन्त्रमेतदुदीरयेत् । आगच्छन्तु महाभागा विश्वेदेवा महाबलाः
ये वाऽत्र विहिताः श्राद्ध सावधाना भवन्तु ते । .... जप्त्वैवं तमुपस्थाय सावधानोऽस्मि वाक्यतः॥ परं तत्पुरतः सम्यगुपविश्य स्वयं ततः । हस्तोदकं तत्कूर्चेन प्रदद्याद्विधिनैव वै ॥
प्रोक्षणात्परतो वापि तन्मध्ये वाऽद्य वा स्वयम् । यजमानः प्रार्थयेच्च ब्राह्मणान् तान् पुरःस्थितान् ॥ श्राद्धार्थ ये मया संपादिता भक्त्या हि देशतः ।
कालतस्ते पदार्था वै श्राद्धयोग्या भवन्त्विति ॥ भवन्तोऽद्य प्रत्रु वन्तु तानेवं प्रार्थये ततः । श्राद्धयोग्या भवन्त्वेवमुक्त तैर्वचने ततः॥
श्राद्धकाले गयां विश्वान् देवान् देवं जनार्दनम् ।
वस्वादीन् तान् पितॄन् ध्यात्वा ततः श्राद्धं प्रवर्तये ॥ मन्त्रमेनं(तत्)समुच्चार्य तिष्ठेत्तत्पुरतो ह्ययम् । प्रवर्तयेति वैरुक्तः कर्म तच्च प्रवर्तयेत् ॥