________________
श्राद्धविधिवर्णनम्
१६३ दर्भाहरणप्रकारः दर्भसंग्रहणं कुर्यादादौ षोडैव तेन वै । पृथक् पृथक् कर्ममात्रे तस्मिन् सर्वत्र पेशलः ।। दर्भसंग्रहणं कुर्यात् श्रोत्रियः स्वयमेव हि । कालेऽस्मिन् संगवे शुद्धो नाशुद्धस्तु कदाचन
कदाचित्पुत्रशिष्याभ्यां मित्राप्ताभ्यां च सन्ततम् । पुरोहितेन चानीताः स्वानि ता इति कीर्तिताः ।। ऋत्विक्पुरोहिताभ्यां ते यद्यानीताः समित्कुशाः ।
निश्रे निःश्रेयसकला:प्रोक्ताः स्वानीतेभ्योऽधिकाः पुनः ।। कुतस्तथेति चेत्ते वै सदा स्वस्य सुचेतसः। हितकामा सदाशीस्सु संप्रार्थितमनोरथाः ।। तदर्भलवने काले मामकोऽयं गृहे सुखे । भवत्येवेतीष्टदेवस्मृति सत्प्रार्थनापरः ।।
तस्मात्तदानीतदर्भाः सर्वकर्मसु देहिनाम् ।
प्रशस्ता एव नितरां स्वानीतास्तत्समा न तु ॥ तद्विष्टरप्रदानं त बह चानां न संभवेत् । प्रदानानन्तरं तस्य विष्ठरस्य तु याजुषाः ।। सम्बुद्ध्यन्तेनासनस्य नं कुर्वन्ति वाग्यताः। षष्ठयन्तेनैव सर्वत्र देवानां त्रिदिवौकसाम् रूपनाम्नां च निर्देशः षष्ठयन्ते संभवेत्तदा । चतुर्थ्यन्ते तथैव स्यात् प्रथमान्तेन विष्टरे।। रूपनिर्देशतो गोत्रप्रोक्ति तश्चेत्तु विष्टरे । समागतास्ते तिष्ठन्तः उपवेशनचेतसः ।। पाददुःखेन नितरां तावन्तं कालदीर्घकम् । न सहन्ते ततः शीघ्र रूपगोत्रादिकं न तु ॥ तस्मिन् कर्मणि तयं एवमाह पितामहः । सर्वत्र पैतृके नित्यं कार्यमाने श्रुतीरितम् ।। प्राचीनावीतमेव स्यात् दैविके तूपवीतकम् । आसनानन्तरं त्वत्र क्षणश्च क्रियतामिति ॥
ओं तथेति च तत्प्रोक्त पश्चादेव पुनस्तथा । प्राप्नुवन्तु भवन्तोति वै चेकवाक्यं वदेदयम् । श्राद्धकर्ताथ भुक्ता(क्त्वा) स्य वदेत्प्रत्युत्तरं पुनः ।
प्राप्नुमश्चेति तत्पश्चात् दर्भानास्तीर्य भूतले ॥ विप्राराद्वौपासनस्योदग्भागे प्रोक्षितस्थले । पात्रद्वयं समासाद्य दभैराच्छाद्य तत्परम् ।। समुद्धृत्य विधानेन प्रोक्ष्याक्षतसुपूजिते । शंनोदेवीतिमन्त्रेण कुर्यात्तजलपूरितम् ।।