________________
१६२
माकण्डेयस्मृतिः आपद्घनध्वान्तसहस्रभानवः समीहितार्थार्पणकामधेनवः॥
समस्ततीर्थाम्बुपवित्रमूर्तयो रक्षन्तु मां ब्राह्मणपादपासवः॥ आधिव्याधिहरं नृणां मृत्युदारिवू नाशनम् । श्रीपुष्टिकीर्तितं वन्दे विप्रश्रीपादपङ्कजम् ॥ विप्रौपदर्शनात्सद्यः क्षीयन्ते पापराशयः । वन्दनान्मङ्गलावाप्तिरर्चनादच्युतं पदम् ।। पुनर्नानाविधापाय परिहाराय सांप्रतम् । पादप्रक्षालन तेषां कर्तव्ये समुपस्थिते ॥ तदा कृताज्यसंसर्गात्तत्पादस्याखिलान्यपि । प्रनष्टानि भवन्त्येव वैगुण्यमपि (सम्भवेत्)
एतस्मान् मन्त्रत्रितयाच्छुक्रादीनां शिवात्मनाम् ।
पादप्रक्षालनं तेषां पितॄणां त्रिदिवौकसाम् ।। कृत्वा स्वयं तत्स्थलस्य पूर्वभागेऽश्रुशोधनम् । पश्चिमाभिमुखेनैव कुर्यादाचमनं सदा ॥ (......) मनायाथ जलं दत्वा स्वयं शुचि ! ब्राह्मणानां स्थलं तत्तु ( ...... ...)॥ प्रोक्षयेद्विधिवद्भक्तथा शुध्यर्थ भूर्भुवादिभिः । अपेतवीतमनुतः यदि मन्त्राक्षमस्तदा ।।
पुराणोक्त ( ........................ ) विधानतः।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ मन्त्रेणानेन वा सम्यक् प्रोक्षणं तत्स्थले चरेत् ।
स्थलस्य प्रोक्षणे जाते यासनान्प्रान्तरे क्षिपेत् ॥ ब्राह्मणानासनेष्वेव सम्यक् तानुपवेशयेत् । पुनः पवित्रपाणिः सन् व्याहृतीभिर्विधानतः
प्रथमान्तानेव भक्तथा संबुध्या विष्टरान् क्षिपेत् । प्रारम्भेषु च ये दर्भाः पादाशीचे विसर्जयेत् ।। पादा शौचान्ते च ये दर्भा विष्टरान्ते विसर्जयेत् । विष्टरान्तेषु ये दी विकिरान्ते विसर्जयेत् ।। विकिरान्ते च ये दर्भाः विरामान्ते विसर्जयेत् । विरामान्ते च ये दर्भाः आसीमान्ते विसर्जयेत् ।। आसीमान्ते च ये दर्भाः तर्पणान्ते विसर्जयेत् ।।