SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्राद्धभोजने कृत्यवर्णनम् न चेत्तूष्णीं तथा ब यात्तत्कृत्स्नस्य फलं लभेत् । अनुक्त्त्वैवं वचोवापि यदि तूष्णीमशेषकम् ॥ सर्वमन्त्रद्रव्यजाल कृतं तद्विफलं भवेत् । मण्डलात्पश्चिमे भागे ब्राह्मणे स्वागते कृते ॥ तत्रैव विसृजेत्पाद्यक्षालयेन्मण्डलोपरि । पादप्रक्षालनं श्राद्ध वरं स्याद्गुल्फयोरषः॥ पितृणां नरकं घोरं रोमसंसक्तवारिणा । पितृणामपि देवानां पादप्रक्षालने तदा ।। खागतं किं भवद्भिवै ते (.........) तः । सुखागतमिति प्रोक्त ब्राह्मणेन ततः पुनः॥ पादप्रक्षालनं कुर्यादन्यथा व्यर्थमेति तत् । काले तस्मिन् स्वागतेति पादौ दर्भद्वयेन वा ।। संगृह्य स्वागतमिति प्रश्नं कुर्यादतन्द्रितः । यद्यन्यथा (...) पितृ (...) किनामपि ॥ आह्वानं तत्क्षणेनैव श्राद्धं नष्टं भवेद्ध वम् । तच्च दर्भद्वयं नोचेत्तत्पादोपरि हस्ततः॥ स्वस्यैव संस्पर्शयित्वा सोमदिश्यां विनिक्षिपेत् । पितृणां दक्षिणदिशि कृत्वैवं पादयोः परम् ॥ क्षालना (........... ) च्छंनोदेवीऋचं जपेत् । यां कामपि तथा भूयः शिवेनेति हिरण्यकाः ।। यासां राजेति वा नूनं तदापो वेति वा जपेत् । यदि मन्त्रानाधिकारिपुराणोक्तमनुं तु वा ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः॥ इमं वा पुनरन्यान् वा श्लोकान् स्मृतिषु संस्थितान् । वदेद्वा मन्त्ररहितो व्याहृतीवा विशेषतः ।। त इमे सर्वकालेषु श्राद्धादौ श्राद्धमध्यमे । श्राद्धान्तेऽपि विशेषेण वक्तव्या स्युः पुनः पुनः ।। मन्त्रज्ञस्य तु नायं स्याद्विधिक्को (ज्ञो ?) ऽपि महात्मनः । तानत्युदाहरिऽयामि मन्त्रान् कांश्चित्पुराणगान् । समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः । अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपासवः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy