________________
१६०
माकण्डेयस्मृतिः
पादप्रक्षालनमण्डलार्चनम् अनन्तरं श्राद्धकर्ता वदेदेवं द्विजान् प्रति । स्वागतं पितृभिर्देवैरिति प्रश्ने कृते ततः॥
सुस्वागतमिति व युः ब्राह्मणास्तेऽपि तस्य वै ।
यजमानस्ततस्तेषां वाक्यं श्रुत्वा त्वरान्वितः ।। अंकणे मण्डले कुर्यात् पादप्रक्षालनाय वै । चतुरनं तु देवानां पितृणां वर्तुलं तथा ॥ गोमयेनैव विधिना प्रातः संपादितेन वै । देवस्थानस्यैतदासनमित्येवं कुशद्वयम् ॥ निक्षिपेत्तस्य निकटे उदग्भागेऽथवा पुनः । पुरोभागेऽपि वा पश्चादर्चत प्रार्चतेति वै॥ मन्त्रेणानेन भूयश्च इमे गन्धा इति स्म वै । चन्दनं निक्षिपेत्तस्मिन् मण्डले स्वकरेण वै॥ पश्चादमी अक्षताश्च वदेदेवममी कुशाः । अष्टाध्यरर्चनं पूर्ण अस्त्वित्येव जलं क्षिपेत् ॥ सदर्भ भूतले पश्चात् प्राचीनावीतिनार्चयेत् । पितृणां मण्डलं तद्वत्तत्रामी शब्दतोऽर्चनम्
गन्धस्य कथितं सद्भिः इमे शब्देन चाक्षताः ।
अमीशब्देन च कुशान् अष्टाध्यैरर्चनं च तत् ॥ समानमेव स्थलयोरिति शास्त्रविदो विदुः । इमे शब्दममी शब्दं एवं येन वदन्ति ते॥ पैतृकस्यास्य हन्तारो भवेयुस्तत्क्षणेन वै । एतान्यष्टाय॑वस्तूनि तान्यत्र प्रक्षिपेत्तदा ॥ पूजाकाले प्रयत्नेन मत्पितॄणां तु तैर्भवेत् । तानि द्रव्याण्यमून्येव कथितानि मनीषिभिः
आपः क्षीरं कुशाग्राणि दध्यक्षततिलास्तथा। यवाः सिद्धार्थकाश्चैव ह्योऽष्टाङ्गः प्रकीर्तितः ॥ क्रमेणैतानि वस्तूनि प्राचीदिक्क्रमतः क्षिपेत् ।
अथवा मण्डले यत्र कुत्र वा निक्षिपेत्स्वयम् ।। तेषां निक्षेपणं येन केनचिद्वा कृतं यदि। कृत्स्नश्राद्धफलं तेन गृहीतं प्रभवेद्धवम् ।। अष्टार्घ्यद्रव्यसंपूर्णकरणं पैतृकस्य तत् । दोहनं कथितं सद्भिस्तस्मात्तन्नान्यवर्मना ।। अष्टानामपि वस्तूनां यदि संपादनाक्षमः । भवेदयं तदातीव तान् दर्भान् वा तिलाक्षतः तूष्णी हस्तेन संगृह्म पयसा तत्र विन्यसेत् । अष्ट्राध्य॒रद्य संपूर्णार्चनमस्त्विति वासकृत्॥