________________
मातापितृश्राद्धव्यवस्थावर्णनम्
१८६ भर्तारमनुगच्छन्त्या मातुयदि तिथिः पृथक् ।
तत्तत्तिथ्योः स्तुते श्राद्धे कर्तव्यत्वेन चोदिते ॥ अयं हि प्रथमः कल्पः पितुः श्राद्धेन तेन वै । सहैव करणं नूनं केषांचित्संमतं तदु ॥ दक्षश्चेत्पृथगेवासौ तयोः श्राद्धं तदा तदा । स्वकाल एव कुर्याद्व सह पित्रा तु दुर्बलः
पति समनुगच्छन्त्याः सह भत्र्यैव तत्परम् । अपि भिन्नतिथौ तस्याः मृतायाः करणं परम् ।। श्राद्धस्य मुख्यकल्पो न किं त्वयं गौणसंझिकः ।
एकचित्यां समारूढौ दम्पती निधनं गतौ ।। एकस्मिन्नेव दिवसे तयोः श्राद्ध सहैव वै । प्रतिसंवत्सरं कुर्यात् अनुमृत्या तथा भवेत्
अनुमृत्या भिन्नतिथौ पृथग्वेति सहैव वा।
संशयः स्यात् तयोः श्राद्धविषये नेति चेन्नतु ॥ तयोः सहैव करणे तस्मिम् श्राद्ध तथाविधे । संकल्पादिषु सर्वत्र सम्यग विवचनं भवेत् उभयोः श्राद्धयोरत्र वैश्वदेविक एककः । वर्गद्वयस्य द्वौ विप्रो पितुर्मातुश्च कीर्तितौ ॥
पुरूरवाई संज्ञानां विश्वेषां नाकिनां मुदा । स्थाने त्वाहवनीयार्थे क्षणंधृत्वा द्विजोत्तमाः॥ कर्तव्यो वै भवद्भिस्तु प्रसाद इति तान् कुशैः ।
साक्षतैर्वृणुयाद् भक्या चतुर्णा वरणे तथा ॥ वरणं घटते सम्यक् एकस्यावरणे कथम् । तादृशं वचनं चेति प्रश्ने बतत्तदुष्करम् ।। एकस्मिन्नपि पाके ( ......... ) हि वर्णनम् । तथैवात्रेति विशेयं शास्त्रीब्रह्मवादिभिः एवमेव भवेत्तत्र पितृणामपि कर्मणि । वरणं शास्त्रविहितं विशेषोऽयं परः स्मृतः ।। शर्मणामपि गोत्राणां रूपाणामपि केवलम् । वसुरुद्रादि (?) कानां चेति स्मृतोऽधिकम्
शिष्टः समः प्रकथितः ( ... )॥