SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्राद्ध भोजनाचमनकालवर्णनम् दरिद्रादेनियमाभावः सर्वप्राणेन पित्रोस्तच्छ्राद्धमन्नेन यच्चरेत् । दरिद्रस्य न दोषोऽस्ति श्राद्धधर्मादिलोपतः ॥ रोगिणो ज्ञानिनस्तद्वदति बालस्य चैव हि । प्राशयित्वा श्राद्धकर्म पीत्वा वातदिने ततः न कुर्यादेव तच्छ्राद्धं न ताम्बूलं च खादयेत् । औषधप्राशने दोषो नास्त्येवेत्यखिला जगुः ।। श्राद्धर्मरहस्यज्ञा प्राणनिर्गमनादिषु । निमित्तेषु प्रसक्ता नु धावनादिषु देवतः ॥ राजचोरादिशार्दूलश्वशृगालमहापदि । पिबन्नपि जलं तूष्णीं सकृच्छ्राद्धं समाचरेत् ॥ अतिव्याध्यतिदाहादौ तापविस्मरणादिषु । अवशाजलपानेन श्राद्धभ्र(भ्रषो न जायते वर्णिनो गृहिणो वापि वनिनोवा विशेषतः। पित्रोताहकं नाम श्राद्धं यत्तत्समन्त्रकम् सपिण्डकं सहोमं च सब्राह्मणभुजिक्रियम् । कार्यमेव प्रशंसन्ति न त्याज्यं तत्कथ चन॥ त्यक्तमात्रेण पतितः स्यादेवात्र न संशयः। आदौ श्राद्धस्य संकल्पः विप्राणां स्नानतः परम् ॥ स्वस्य स्नानं तु विहितं न तत्पूर्व कदाचन । स्नातैविप्रैः समेतो वै मध्याह गृहमाविशत् भोजनाचमनकालः पादप्रक्षालनात्पश्चात् तेषां स्वस्य च तत्परम् । आचामो विहितः स्वस्य तेषामपि विशेषतः॥ कर्तुराचमनात्पूर्व भोक्त राचमनं यदि । शुनो मूत्रसमं तोयं तस्मात्तत्परिवर्जयेत् ॥ पादप्रक्षालनात्पश्चात् यजमानः स्वयं यतन् । पाकस्सर्वस्समीचीनो जातः किमिति पाचकीम् ॥ पत्नी पृष्ट्वा कोपहीनः सुमुखेनैव तत्परम् । तया सिद्ध इति प्रोक्त स्वयं दृष्ट्वा सभां कृताम् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy