________________
१८६
मार्कण्डेयस्मृतिः तेनैव कारयेद्वाऽपि विकल्पोऽयं समो मतः। दिनाष्टकात्पूर्वमेव श्राद्धार्थं पुनरेव वै॥
स्थितानिरपि तं भूयः संदध्यादेव मन्त्रतः।
असन्निहितभार्यश्चेत्तत्काय तदा शुचिः॥ संधाय तस्मिन् विधिना त्वमौ करणमाचरेत् । अग्न्यभावे पाणिहोम (?) सन्त्यत्र केचन तदाश्वलायनपरं याजुषाणां न तद्भवेत् । एषामपि विशेषेण पमिहोत्रे कदाचन ॥ होमकाले त्वनुगते बन्येषामप्यसंभवे । पाणिहोमस्तु कर्तव्यो नात्र (१) कदाचन ।। (........) होमोऽपि चौखेयानां विधीयते । अजास्य होमः कथितः वैघानपरस्स तु अप्सु होमस्तु नितरां काण्वानामेव चोदितः । यदि श्राद्ध होमकाले दैवादनुगतो यदि॥ वहिरौपासनो नूनं तदा संकल्पपूर्वकम् । सर्वप्रायश्चित्तहोमो व्याहृतीभिर्भवेत्तु वै॥ अनाज्ञातत्रयं चापि इदं विष्णुश्च तत्परः । एतावतैव तत्कालतद्वह सिद्धिरुत्तमा ॥ __ भवत्येवात्र तत्सर्वं तस्मिन् पश्चात्समाचरेत् ॥
श्राद्धक धर्माः कधर्माः पूर्वदिनप्रभृत्येव भवन्त्यमी। निमन्त्रिणप्रभृत्येव (१) भोक्त धर्माः प्रचक्षते ॥ दानाध्ययनदेवेज्या जपहोमत्रतादिकान् । न कुर्याच्छाद्धदिवसे प्राग्विप्राणां विसर्जनात् तस्मिन् दिने विप्रभुक्तः पूर्व कस्मै किमप्युत । न दद्यादेव तत्कार्यहेतवे चेत्समागतम्
वस्त्वपूर्व तु गृह्णीयाद् यद्यप्राय तु तत्तराम् । पूर्वस्मिन्नेव नितरां गृह्णीयात् दिवसेऽखिलम् ॥ मनस्वी शक्तिमान् दक्षो भक्तिमान् यः समाहितः ।
शुचिर्दक्षः प्रगल्भश्च बहुमित्रः सुपुत्रवान् । अतत्त्वज्ञो किञ्चनश्च बन्धुमित्रादिवर्जितः । स्वशक्त्यनुगुणात्सर्वसमीकरणमाचरेत् ॥
यदा तदा तदिने वा येन केनाप्युपायतः॥