SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अग्नौकरणवर्णनम् १८५ श्राद्धमद्यति विधिना स्वयमेव निमन्त्रयत् । औपासनात्परं पूर्व यथारुचि निमन्त्रणम् सप्तानामपि पञ्चानामेकैकस्य निमन्त्रणम् । न सार्वत्रिकमेव स्यात् ब्राह्मणानां तु पैतृके। ब्राह्मणसंख्या विप्रत्रयं चैकैकस्य व्रणं जुहुयात्ततः । भाव्यमेवेति निखिलैः परं नांगीकृतं च तत् ॥ किं त्वेकस्यैकैकमिति निश्चितं तु मनीषिभिः । सार्वसाधारणेनाथ सौलभ्येन सुनिश्चितम् द्वौ द्वौ देवेऽपि च स्थाने त्येतच्चापि न सुन्दरम् । इत्येवमेतत्सर्व वै निश्चित्यैव ततः पुनः हिताय सर्वजगतां कृत्स्नस्यैवाविशेषतः । देवस्थानेऽप्येक एव पितृस्थानेऽपि केवलम् ॥ (क एवेत्यंगीचक्र : स विष्णुस्तु कृताकृतः । अग्नौ करणमन्येषां प्रत्यब्दे लौकिकानले ॥ अग्नौकरणम् पित्रोरेवोपासने स्यात्पल्या मातामहस्य च । मातामहस्य तत्पल्याःसपनीमातुरेव य पित्रोरपि तथा पल्याः श्राद्धमौपासनानले । पितृव्यस्य च तत्पल्याः ज्येष्ठभ्रातुस्तथैव च प्रत्यब्दं श्राद्धमुद्दिष्टं लौकिकानाविति स्थितिः। पत्नीनाशादग्निनाशे कदाचिज्जायते यदि पितुः श्राद्धाय यत्नेन तछाद्धात्पर्वमेव वै । दारक्रियां प्रकुर्वीत ज्येष्ठो यदि सुतस्तथा ॥ न तद्भिन्नास्तथा कुर्युः श्राद्धात्पूर्व तु तादृशम् । श्राद्धानन्तरमेव स्यादन्येषां दारसंग्रहः॥ वर्णी यद्यप्रजः सोऽयं पित्रोस्तु मरणात्परम् । प्रथमादाब्दिकात्पूर्व विवहेदमिहेतवे । ज्येष्ठपुत्रो विधानेन वर्णी चेत्तन्मृते परम् । तस्मिन्नेवाद्यके चाब्दे विवाहाद्वहिहेतवे ॥ पित्रोस्तु मरणात्पश्चात् तस्मिन्नेवाब्दिके पुनः। विवाहो ज्येष्ठपुत्रस्य विहितो वहिहेतवे ॥ औपासनानौ विधिवत् कृतं तच्छ्राद्धमेककम् । लौकिकाग्निकृताच्छ्राद्धात्परं कोटिगुणाधिकम् ।। यद्यौपासनवहिः स दूरसंस्थो भवेत्तदा । प्रत्याब्दिके समायाते तदा स्याल्लौकिोऽनिलः।। तदा कनिष्ठेऽग्निमति संनिकृष्टेऽस्य पावके । औपासनानौ तत्कुर्यादग्नौ करणमञ्जसा।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy