SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८४ मार्कण्डेयस्मृतिः । सन्ध्या प्रत्याब्दिकाभ्यां तद्ब्राह्मण्यं लोकविश्रुतम् । येन केन प्रकारेण कृताभ्यां तत्र केवलम् ।। अत्यन्तगुमप्रथमं सर्वाङ्गीकृतमुत्तमम् । द्वितीयं तच्च सर्वत्र प्रकाश्यत्वेन सन्ततम् ॥ विप्रेकसाभिक सर्वक्रियावित्साध्यमेव तत् । अत्यन्तापदि च प्रोक्तं तन्मत्रैकक्रियापरम् पित्रोरेव तथा शेयं पितृव्यस्यानुतस्य च । भ्रातुर्मातामहस्यापि तपत्नीनां तथा स्मृतम् पित्रोः श्राद्धपरित्यागाच्चण्डालत्वमवाप्नुयात् । सद्य एव न सन्देहः तस्मात्कुर्यात्तु तद्यथा ॥ आपत्कल्पे मन्त्रविदो राहित्ये केवलं तदा। व्याहृतीभिस्तत्करणं तदनौ करणं विना॥ पिण्डदानं च तत्सर्व कदाचित्समवेत्सदा । न भवेदेव किं त्वेतत् सर्वदाऽपि समन्त्रतः।। कर्तव्यत्वेनोपदिष्टं ब्राह्मणैब्रह्मवादिभिः । अतस्तत्संप्रवक्ष्यामि तद्विधानं समन्त्रकम् ।। श्राद्धे प्रधानमन्त्राः प्रधानमन्त्रा एते स्युः श्राद्धे प्रत्याब्दिके पराः । अग्नौ करणहोमस्य सोमायेति द्वयं परम् ।। पृथिवीतेति मन्त्रोऽयं ज्ञयमन्नाभिमर्शने । अपां मेध्यादिकं मन्त्रजालं पिण्डविधौ स्मृतम् ।। प्राधान्येनैव स्यात्कथितं सर्वसूत्रिभिः। एतत्सर्वात्मना त्यक्तुं शक्यते किल सर्वथा ॥ त्यक्त चेन्मोहतः किंचिदेतेषु किल लध्वणु । नष्टमेव भवेच्छ्राद्धं तस्मात्सर्व समाचरेत् श्राद्धकर्ता पूर्वदिनरात्रौ विप्रान्निमन्त्रयेत् । ब्राह्मणनिमन्त्रणम् कृतभुक्तिक्रियानेव तत्पूर्व न निमन्त्रयेत् । निमन्त्रणात्परं तेषां भुक्तिकर्म विशेषतः॥ निन्दितं शास्त्रजालेन तस्मात्तन्न तथाचरेत् । ततः स्नातः परेच श्च कृतसंध्याक्रियाञ्छुचीन् ।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy