________________
पुरोहितप्रशंसावर्णनम्
१८३ नष्टप्रजाकलत्रादिसन्ततिः स्याच्छनैरयम् । सदा पुरोहितं तस्मात्सर्वकर्मसु चेतसा ।। संप्रधायैव मतिमान् तानि कुर्यात्ततः परम् । पुरोहितमतिक्रम्य यत्कार्य तदसंमतम् ।। करोति तत्पर वृद्धिं लभते नैव केवलम् । पुरोहितमतेनैव कल्याणेषु विशेषतः ॥ बन्धूपूजादिकं सर्वबन्ध्वाह्वानं यदा तदा । तद्धस्ताननतन्मन्त्रः प्रकुर्यात्तत्समन्वितः॥ तेन श्रेयो विशेषेण लभते संपदा श्रियम् । नान्दीमिमां च तस्मात्तु तन्मुखेन समाचरेत्
गुरुर्माता पिताचार्यः उपाध्यायश्च बान्धवः । सर्व पुरोहितो ज्ञयः पुत्रो मित्रं सुतस्सुहत् ॥ महात्मना तेन विना न किमप्यस्ति देहिनः । गोप्यं गुह्यं रक्षणीयमपेक्ष्यं प्रार्थितं तथा ॥ सर्वकार्येषु मन्त्रोक्तौ शत्यभावे तथा परम् ।
तदुक्तमेव स्वप्रोक्त प्रोक्तवान् भगवान् गुरुः ॥ सं विना नैव कुर्वीत सर्वकर्माणि सन्ततम् । तदुक्तरीत्या कुर्वीत तदुक्तं नातिलंघयेत् ॥ तदुक्तलंघनकरः चण्डालत्वमवाप्नुयात् । तथाविधस्त्वेक एव त्रिशंकुलोकविश्रुतः ।।
नान्यः कश्चन विज्ञमः गुरुद्विड्लोकनिन्दितः । तेन कर्मविपाकेन विश्वामित्रप्रपालितः ॥ अद्याप्यवाशिरा एव वर्ततेऽसौ विलक्षणः । कदाचित्तस्य विरहे श्राद्धोऽस्मिन् समुपस्थिते ॥ स्वस्यापि मन्त्रसामर्थ्यशून्ये प्रत्याब्दिके तदा।
तिसृभिर्व्याहृति(ती)भिः स्यात् कर्म सर्व विनाहुति (ती)॥ तन्मात्रमन्नसंस्पर्श पिण्डदानं च कृत्स्नशः । तन्मन्त्रैरैव कर्तव्यं अन्यथा तद्भवेन्न तु॥
एतत्सामर्थ्यविकलः पितुः प्रत्याब्दिकं तु तत् । सर्व व्याहृतिभिः कृत्वा मन्त्रविद्दुर्लभे ततः॥ पुनः कुर्यान्मत्रविदः संभवे मन्त्रविच्च तम् । न चेत्पातित्यमाप्नोति सत्यमेतदुदाहृतम् ॥