________________
१८२
मार्कण्डेयस्मृतिः तस्मै यलेन दातव्यमतिक्रम्यापि संनिधिम् । स्वबन्धुदानकरणपक्षे तेषां दरिद्रता ।। बहुप्रजादिकाक्षामकालः सद्गुणपूर्णता । दुष्प्रतिग्रहशूद्रादिप्रतिग्रहतिरस्कृतिः॥
विद्याभावेऽपि सन्ध्यादिसस्क्रियाकरणादिना ।
विद्यादुत्प्रीतिमत्ता च गर्वाभावः कृतज्ञता ।। यदि स्युरेते बन्धूनां श्राद्धषु ग्रहणं भवेत् । यद्यते न गुणास्ते वै सद्गुणिन्यन्यजातिषु
लब्धे स एव संग्राह्याः न बन्धुरिति शासनम् । श्राद्धभिन्नेषु कार्येषु बान्धवा मनसो यदि ।। स्वीकार्याः स्युरिति ग्राह्याः सम्मताश्चेन्न ते न तुः (१)।
आत्मतुष्टिस्तु परमा दया चापि परा तथा ॥ बन्धुमात्रेषु विहिता सा हि धर्मस्सनातनः । न बान्धव पुरस्काराद्गविष्टं दुष्टचेष्टितम् ।। दुष्प्रतिप्राहकं तीर्थशूद्रश्राद्धप्रतिप्रहम् । मत्तं प्रात्यं तथा जाड्यशालिनं कुत्सितं शठम्॥ वेश्यापति च कितवं गायकं नटगोलको । कुनखं सज्जनमहादूषकं ब्रह्मनिन्दकम् ॥ पुरस्कुहानमात्रे दूरतः श्राद्धकर्मसु । एतादृशं जनप्रीत्या कलत्रादिप्रपीडनात् ॥ पैसकेषु प्रयुञ्जानः पितृणां मारको भवेत् । अपि स्वयं कालसूत्ररोरवाद्यालयो भवेत् ॥ दोषाभावे तु वक्ष्यामि निष्कृष्टार्थ परं त्वहम् । मातापित्यु यद्दत्तं भ्रातृषु स्वमुतासु च जायात्मजेषु यदत्तं तन्नित्यं स्वर्गसंक्रमः । पितुः शतगुणं दानं सहस्रमातुरुच्यते ॥ अनन्तं दुहितुर्दानं सोदरे दत्तमक्षयम् । भगिनीभागिनेयाना मातुलानां पितृष्वसुः॥
दरिद्राणां च बन्धूनां दत्त कोटिगुणं भवेत्॥
पुरोहितप्रशंसा पुरोहितेषु यदत्त तदक्षय्यफलं लभेत् । आत्मनस्तु भवेत्पात्रं नान्यस्य स्यात्पुरोहितः॥ सदा पुरोहितमतौ स्थेयं धर्मपरेण वै । पुरोहितो ह्यमुष्मै सः श्रेयस्कृत्तु सदा स्मृतः ॥ सन्ततं कोटिबन्धूनां मित्राणां तादृशं तथा । मातुलश्वशुरादीनां पित्रादीनां च किं पुनः पुरोहितैकतुलितो श्रेयस्कामी न विद्यते । सद्यः पुरोहितत्यागात् तदसंमतिकृत्यतः॥ :