SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८० मार्कण्डेयस्मृतिः एतादृशानां नान्द्याख्यकर्मण्यस्मिन् शुभागमे । श्राद्धं सम्यङ् नचेत्कुर्यात्स्वपूर्वेषां महात्मनाम् ।। पशुतुल्यः स विशेयो यद्यन्नेन कदाचन । कतु कार्यविशेषैश्चत्तादृशं श्राद्धमुत्तमम् ॥ न शक्यते तदा भक्त्या तदा मे न समाचरेत् । यदि तत्रापि तत्कतु लौकिकैः कायवृन्दकैः ॥ तदाविधेन कामेन शक्तिहीनस्तदा पुनः । समग्रोण हिरण्येन सम्यगेव समाचरेत् ।। दातृप्रतिगृहीतारौ कल्याणेषु समुद्यतौ । धनं नानाप्रकारेण संपाद्यवातिचर्यया ॥ यावत्परिमितं सर्वलौकिकेष्वेव केवलम् । विनियुज्य यथेच्छं तदेतत्कार्ये समुद्यते ॥ असत्कृत्यैव किमपि त्यक्त्वा शोभनदेवताः। अत्यन्तपामरा मूढाः कायं विस्मृत्य मोहतः॥ कार्यमात्रकृतोत्साहाः प्रायेण बहवो जनाः। विद्वांसोऽपि जडा भूत्वा कर्मतत्सुमहच्छिवम् ॥ व्यर्थं कुर्वन्ति मनुजास्तेन दोषेण भूतले। मानुषा बहवोऽतीव दरिद्रा नष्टतेजसः॥ नष्टप्रजा नष्टकामास्तथा नष्टायुषः परम् । संप्रन(ण)ष्टकुलश्चापि दृश्यन्ते भग्नमानसाः॥ सम्यक् सर्वाणि कार्याणि बन्धुमित्रादिहेतवे । समीचीनानि वैगुण्यरहितान्येव कुर्वते॥ भार्यापुत्रादि लोकानां भुक्तिश्रीभूषणस्रजाम् । वस्तुवाहनचेलानां विषये कोऽपि भूतले॥ वैगुण्यं न करोत्येव किंतु सर्व तु तादृशम् । अत्यन्तानुपपत्तीनां सहस्रमपि केवलम् ।। नान्द्यादिदेवताविप्रस्वश्रेयसकृते भवेत् । यो वा विद्वान् महाभागो दरिद्रोऽपि स्वयं शिवम् ।। कमैतद्वदिकं सम्यक् करोत्यन्यो नरो न तु। सम्यक् पात्रं समुद्वीक्ष्य तद्योग्यं परमं स्वयम् ॥ स्वचेत (१) तत्कुर्यात् स्ववृद्ध्यै स्वश्रिये चिदे । चिरादिप्रापकं शेयं अग्निहोत्र्यपि वेद्यपि अथैकमविकं ज्ञानं कर्मयोगरतात्मनाम् । शतजन्मभवं दानं तपोनिष्ठे प्रतिष्ठितम् ।। जपयज्ञप्रयुक्तषु सहस्रफलिकं स्मृतम् । अभूतसंप्लवस्थाय प्रदानं ब्रह्मवादिनाम् ।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy