________________
नान्दी श्राद्धवर्णनम्
१७६ अत्र तद्ब्राह्मणं ब्रूयात् ओदनं वाक्यवेदकम् । ततस्तान् ब्राह्मणान् परिषेचनं शास्त्रतः क्रमात् ॥ कारयित्वा विधानेन चापोशनजलं शुचि । दत्वा सम्यग् भोजयित्वा चित्रान्नैर्दधिरञ्जितैः ।। दध्ना च तृप्तान विज्ञाय कारयित्वा स्व (?) स्थितः । उत्तरापोशनं दत्वा हस्तप्रक्षालनात्परम् ।। आचान्तानासनेष्वेतान् सूपविष्टान् गतश्रमान् ।
अलंकृतान् पुनः कृत्वा ताम्बूलैर्दक्षिणादिभिः ।। समभ्यर्च्य नमस्कृत्य ह्याशिषामक्षतांश्च तान् । मन्त्रदत्तानुत्तरीयानम्बरेणैवतः स्वयम् संगृह्योरसि क्षिप्त्वा(?)मपि तान् क्रमात् । प्रदाय स्वजनानां च नमस्कृत्वा(त्य)विसर्जयेत्
अत्र केचित्पिण्डविधिमिच्छन्त्यपि समन्मतम् ।
अस्यानाद्यां परं विप्र भोजनं परमं मतम् ।। अनेन भोजनेनात्र नान्दीशोभनदेवताः । अतिवृताः समाहूताः यावत्कर्म समाप्यते ॥ तावत्तिष्ठति सुप्रीताः यावत्तेषां स्थितिर्भवेत् । तावत्पितॄणां प्राचीनावीतपूजारतात्मनाम प्रवेष्टुं नावकाशः स्यात् कुत एवं भवेदिति । कृते प्रश्ने प्रवक्ष्यामि तद्रहस्यमहं हि वः ।। त एते खलु विशेयाः नान्दीशोभनदेवताः । अतितृप्ताः समाहूताः यावत्कर्म समाप्यते तावत्तिष्ठति सुप्रीताः यावशेषां स्थितिर्भवेत् । तावपितृणां प्राचीनावीतपूजारतात्मनाम् प्रवेष्टुं नावकाशः स्यात् कुत एवं भवेदिति । कृते प्रश्ने प्रवक्ष्यामि तद्रहस्यमहं हि वः॥ त एते खलु विशेयाः नान्दीशोभनदेवताः। पितरोऽमीधनात्यन्तविरुद्धाचारतत्पराः॥ निश्शब्दागमिनस्ते हि सशब्दागमिनस्त्वमी । निरलंकृतगेहैकसमागमसुचेतसः ।। पितरस्तेऽखिला हयाः नान्दीशोभनदेवताः। यत्नालंकृतगेहैकसमागमनसुस्थिराः॥ शब्दमात्रैक भीतास्ते शब्दमाधुर्यतत्पराः । मृताहदृष्टिमात्रास्ते शुभमात्रैकमानसाः ॥
अमी सवं समाख्याताः अत एषां च तादृशाम् । एकत्रापिसमावेशः तेजस्तिमिरयोरिव ।।