________________
१७८
मार्कण्डेयस्मृतिः चतुरस्रषु सर्वेषु मण्डलेषु समन्ततः । रङ्गवल्लीचित्रितेषु पात्राणि निखिलान्यपि ॥
असंबाधान्येव कुर्यात् क्षिप्त्वा क्षितितले शुचौ।
पात्राणां नासनं दभैः किन्तु पुष्पैः शुभाक्षतैः ।। कुर्यादेव न चेत्तूष्णीं पात्रमात्राणि वा क्षिपेत् । पात्राभिधारणं पत्नी कुर्यादेवात्र केवलम् संस्कार्यो वा विशेषेण न स्वयं तत्समाचरेत् । तच्चाभिधारणं तूष्णीं पात्रेण न समाचरेत् नापि ए दिना किंतु भक्षेणैव समाचरेत् । अपूपेन गुडेनाथ पुष्पेण च फलेन वा ॥ येन केन च नोचत्तु हिरण्यरजतादिभिः । नान्दीशोभनदेवानां भुक्तौ पात्राभिधारणम __कुर्यादेवं विधानेन न चेत्तत्पैतृकं भवेत् ।
परिवेषणप्रकारः परमान्नं प्रथमतः पश्चात्सार्षपयुग्मकम् । चतुष्टयं च शाकानामन्नं सूपं फलादिकम् ।।
विविधानि च भक्ष्याणि लेह्यानि विविधान्यपि ।
मधुनात्र प्रदद्यात्तु तिलभक्ष्याणि यानि वा॥ वर्जयेत्तानि सर्वाणि लावणानेव सुन्दरान् । चूतामलकनारङ्गलिकुचादिकखण्डकान् ।।
चिरक्षिप्तान भाण्डगतान् यत्नगन्धादिवासितान् ।।
अमिसंयोगविधुरान् निहितान् चर्वणदुमान् ॥ संस्कृतान् विधिना यत्नात् तानत्र परिवेषयेत् । प्रभूताज्येन सर्वत्र पूर्णयित्वा क्रमेणवै ॥ अन्नं समभिधार्याथ गायच्या प्रोक्ष्य सर्वतः । समाराधनतन्त्रेण सर्व कुर्यादतन्द्रितः॥ सर्वत्रापोशनं हस्ते दत्वायं प्राङ्मुखः स्थित । पत्नीदत्तजलेनैव स्वकरं साक्षतं शुचिः॥ पूरयित्वा वदेन्मन्त्रं महाभारतमध्यगम् । एको विष्णुमहद्भूतं पृथग्भूतान्यनेकशः॥
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः।
एतं मन्त्रं समुच्चार्य क्रियमाणेन केवलम् ॥ प्राणानां भोजनेन भगवत्यो महत्तराः । सर्वात्मकाः सर्वधराः नान्दीशोभनदेवताः। सुप्रीताः सुप्रसन्नाश्च वरदाश्च भवन्तुनः। इत्युक्त्वा तज्जलं पात्रे भूतले वा विनिक्षिपेत्।।