________________
-
१७६
माकण्डेयस्मृतिः अमीवहेति यजुषा शिवं शिवमिति द्विजाः ।
सर्वस्थलविशेषान् तान् गृहभूभागनिष्कुटान् ॥ परिषिश्च प्रोक्षयेयुः शिवं शिवमिति क्रमात् । परिषिक्त प्रोक्षितं तदेवं तत्स्थलजालकम् कलाहमेव भवति न चेत्तन्न भवत्यति । एवं पुण्याहं निवर्त्य कर्मादौ मंगलाख्यके ।।
पुनः संकल्प्य विधिना नान्दी कुर्याद्विधानतः।
संकल्पानन्तरं तत्र चेडाया वाचनं स्मृतम् ॥ ततः शिवं शिवं चेति शोभनं शोभनं तु वा । मंगलं मंगलं वेति कुशलं कुशलं तु वा॥ उदाहरेच्छ्राद्धकर्ता पुनरेव ततस्तथा । शोभनाख्या देवतायाः तथैव ग्रामवासिनः ।।
(... ....... ) ज्ञाश्च सर्व एव मुदायुताः। सम्यक् समुच्चया भूत्वा समागत्यात्र संघशः ॥ वेदिकायां शिवाख्यायां मम पूजां कृतां पराम् । स्वीकृत्य मां वै रक्षन्तु धर्मपत्नी च बालकौ ॥ प्रा ( ....... . ) वन्तु प्रार्थयित्वैव तत्परम् ।
कुर्यात्तद्देवताध्यानं देवताश्चापि कीर्तयेत् ।। अत्राद्यदेवता प्रोक्ता सा वृद्धप्रपितामहा । तदानन्तर्यका प्रोक्ता सद्धिपितामहा वृद्धमाताऽथ संप्रोक्ता पर्याये प्रथम स्मृताः । नान्दीमुख्या देवतास्ताः तिस्रस्सप्तमपूर्वतः विशेया एव सर्वत्र न तु प्रथमपूर्वतः । पश्चाद्वितीयपर्याये सवृद्धप्रपितामहः ।।
तत्पश्चादेवसंप्रोक्तस्तज्जो वृद्धपितामहः । अथ वृद्धपिता शेयस्त्रय एते मनीषिभिः॥ ज्ञया नान्दीमुखस्तस्मिन् कर्मण्यस्मिन् महोत्सवे ।
एवं मातामहाश्चापि ततो मातुः पितामहाः ।। वृद्धशब्दैकसंयुक्ता मातुस्तत्प्रपितामहाः । मिलित्वा नवसंख्याकाः सपर्यायास्तु देवताः
त्रय एव समाख्याताः न ते षट्चोदिताः कदा । एतेषां स्मरणं कृत्वा नवानां तद्वयोरपि ।।