________________
· पुण्याहवाचनोत्तरकायविधिवर्णनम्
१७५ अथ सर्वे प्रोक्षयेयुर्यजमानं कलत्रिणाम् । सर्वप्रोक्षणकालेषु वधूः स्यादुत्तरैव हि ॥
तस्मात्तु प्रोक्षणं तस्याः प्रथमं स्यात्ततः पुनः।।
यजमानस्य तु भवेत्तद्व्यत्यासेन चेत्कृतम् ॥ सद्यो गृहपतेरश्री भवत्येषां ततः पुनः। कालेन जायते नूनं तस्मात्तन्न तथाचरेत् ॥ स्वश्रेयसानि सर्वाणि चिरंटीपूर्वकाणि हि । भवेयुरेव सततं शुची वो मन्त्रजालकैः ।। तेरेतैर्विहितं तत्तु स्नानं वोभययोर्भवेत् । मंगलेषु प्रोक्षणेन द्विजहस्तकृतेन वैसे समन्त्रकेण कथितं पौष्करं त्वभिषेचनम् । प्राच्या दिशीति मन्त्रेण यजमानं कलत्रिणम्
प्राग्भागे मार्जनं कुर्युः दक्षिणायां च मन्त्रतः । दक्षिणे मार्जनं कुर्युः प्रतीच्यामिति मन्त्रतः ।। पश्चिमे मार्जनं कुर्युः उदीच्यामिति मन्त्रतः ।
उत्तरे मार्जनं कुर्युः ऊ यामिति मन्त्रतः ।। मस्तके मार्जनं कुर्युः कृते त्वेवं हि मार्जने । सर्वतीर्थेष्वापगासु गंगादिषु चतसृष्वपि ।। सागरेषु कृतस्नानः सद्यो नूनं भवेदयम् । प्रोक्षणान्ते ब्राह्मणेभ्यस्तत्कर्तृभ्यो यथामति
प्रदद्यात्तत्फलावाप्त्यै कर्मसाद्गुण्यहेतवे ।।
ताम्बूलं दक्षिणां चापि मानसोत्साहमात्रकाम् ।। पूर्वादिक्प्रोक्षणकृतिसमये ब्राह्मणास्तु ते । प्रत्यङ्मुखा भवेयुर्हि दक्षिणायां दिशि स्मृताः
उदङ्मुखाः खलु प्रोक्ताः पश्चिमायां तु ते पुनः।
प्राङ्मुखाः स्युर्विशेषेण चोदीच्यां तु ततः पुनः ॥ दक्षिणाभिमुखा कुयु रेवं तत्प्रोक्षणे पुनः । विधिः प्रकथितः सद्भिः प्रथमे यो वृतः पुरा॥ स एव पूर्वभागैकप्रोक्षणस्याधिपो भवेत् । विधिन्येव तथान्येऽपि सम्यगेव निरूपिताः तत्प्रोक्षणैककर्तारः क्रमादेव समानतः । सर्वे समेत्योर्श्वभागप्रोक्षणस्याधिपा मताः॥
__ तत्तदिग्भागभूमिस्थास्तन्मुखा एव पूर्ववत् ।
संगृह्य दक्षिणां तस्मादत्तां विप्राश्च तत्परम् ॥ वास्तोष्पतेति मन्त्राभ्यां तज्जलं कलशत्रये । विद्यमानं शिवं पुण्यं सकूर्चेन सपल्लवैः ॥