________________
१७२
मार्कण्डेयस्मृतिः स्नात्वा तेन विधानेन स्नानागं तर्पणं च तत् । प्रकुर्यादुपवीतेन तत्र यत्तर्पणं तदा ॥ कर्तव्यमेव सततं अभ्यङ्गस्नानकर्मणि । तत आचम्य शुष्केण वस्त्रोणांगानि कृस्स्तशः ॥ निमज्य पश्चान्मस्तिष्कं निमजेदिति तत्क्रमः। नित्यस्नानादिकृत्येषु शिरसः प्रथमंतु तत् प्रोक्तं निसृजनं नित्यं पीडितेनैव वाससा। तदाद्रेणैव स्वीयानि (प्रक्ष्याल्य) तु कदाचन यद्यन्यवाससा गात्रं निमजेत्स्नानजं फलम् । तद्वत्रदातुरेव स्यात् पुत्रमित्रादृते तु तत् ।। नापत्सु दुर्गतेष्वेवं कदाचिद्रोगिणी कचित् । मर्यादैवं विजानीयाद्रोगिणः शुष्कवस्त्रतः गावनिमजनं शस्तं न दोषाय भवत्यपि । शुभ्र वस्ो स्वीये धृत्वा चन्दनेन स्वलंकृतः धृत्वा पुष्पाक्षतादीनि स्वर्णभूषणभूषितः । पुण्यानां वाचयित्वादी ब्राह्मणैर्वेदपारगैः ।।
पुण्याहवाचनविधिः पुण्याहस्वस्त्यधिशब्दैर्दक्षिणादानपूर्वकम् । शान्तिरस्तु तथा पुष्टिस्तुष्टिरस्त्विति तत्परम् ।। वृद्धिरस्त्विति संप्राप्य चाविन्नोऽस्त्विति तत्परम् । आयुष्यमस्तु भूयश्चारोग्यमस्तु ततः पुनः॥ स्वस्त्यस्तु च शिवं कर्मास्त्वित्यनन्तरमेव वै। अस्तु कर्मसमृद्धिश्च पुत्रपौत्रादिसंपदाम् ॥ तथा वेदसमृद्धिश्च समृद्धिः शास्त्रसंपदाम् ।
इति संप्रार्थ्य तत्पश्चात् तदुत्तरगतः पुनः ।। अस्तु मे दिष्टनिरससंचयः पापसञ्चयः । सोऽयं प्रतिहतश्चास्तु य यश्च तदस्तु मे ॥ तथादित्यपुरोगा ये प्रीयन्तां ते ग्रहा इति । तिथिवातादिदिग्देवाः करणादिमुहूर्तगाः॥ प्रि(प्री)यन्तामद्य मत्कर्महेतवे सुकृदाय च । सर्वघोराणि शाम्यन्तु पापान्यपि विशेषतः
प्रशान्विति नैऋत्यां दिशि वै संस्थितो वदेत् ।
कलशाम्भो निक्षिपेद्वा सर्वेष्वेतेषु कर्मसु ॥ पुनः शुभानि वर्धन्तामिति तत्र स्थितो जपेत् । प्राङ्मुखेनैव नोचेत्तु पूर्ववद्वा जले जलम्