SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ नान्दीश्राद्धमहत्त्ववर्णनम् १७१ गृहालंकरणादीनि गतप्रत्यागतानि च । मुसलोलूखलक्षिप्त हरिद्रातण्डुलौघकैः ॥ पुरन्ध्रीगानविक्षिप्तैः पर्यायोद्धरणोज्झितैः। सताम्बूलाभ्यञ्जनैश्च निशाचूर्णाभिरञ्जनैः तचित्ररङ्गवल्यौघताहरभवनमण्डनैः । चिरंटगानसुमुखसमागतजनाकुलैः ।। नृत्यन्तस्ते समायान्ति शोभनाख्या हि देवताः । तेषां तद्ध्वनिमात्रेण प्राचीनावीतिहर्षिणः॥ सिक्तक्षालितशुद्धाङ्गा स्त्यक्तसर्थानुलेपनाः । मुक्तपुण्डललाटाश्च सुस्पष्टात्यन्तदुर्मुखाः ।। नित्यास्पष्टप्रसादाश्च स्पष्टकोपा निरन्तरम् । त्यक्तालंकारशरणप्रवेशस्थितिचेतसः ।। स्वविरुद्ध क्रियाभीतिसंयुक्ताः सत्वराः क्षणात् । पलायनपरास्ते स्युस्तेषामेषां यतोऽन्वहम् ।। स तेजस्तिमिरन्याय औत्पत्तिक इतीरितः । तस्मादेषामागमने शोभायै पितरस्त्विति देवानां शोभनाख्यानां सुमुखाना सुचेतसाम् । मन्त्रेण जाते विधिना तदाह्वाने कृते किल ।। महामंगलवाद्य न सुशब्देन त्रिवारतः । निःशब्दपरमास्ते तु तस्मादूरीकृताः पुनः ।। यावत्स्वधर्मकाह्वानं तावन्नायान्ति तद्गृहम् । तस्मान्नान्दी प्रकुर्वन्वै प्रातःस्नात्वा विधानतः ।। नित्यकर्म समाप्याथ ब्रह्मयज्ञ च तर्पणम् । तदङ्गभूतं निवर्त्य धृतालंकरणः शुचिः ॥ सुरम्यवाद्यशब्दोघे मंगलाख्यैर्मनोहरैः। सर्वान् बन्धून समाहूय मित्राणि निखिलान्यपि स्वग्रामिणः स्ववीथीस्थानन्यान् प्रामान्तरस्थितान् । दूरदेशस्थितान् स्वीयान् सर्वानेवाविशेषतः॥ आप्तान जात्यन्तरजनान् तैरयं निखिलैरपि । कृताभ्यनुज्ञो गुरूभिः संवृतः सुमुखः शुचिः॥ देवान्नत्वा प्रापयित्वा गणेशादिमुखानपि । कृतनीराजनविधिः समनुष्ठितमंगलः ।। स्वीकृतानेकहारिद्राचूर्णाक्षतमुख क्रियः । पत्न्या साकं कृताभ्यङ्गस्तैलेनैव सुगन्धिना ।। हरिद्राचूर्णतैलाभ्यामभ्यक्ताङ्गस्वष (?) विग्रहः । पुरन्ध्यानीतसुसुखः स्वच्छोष्णजलपूरतः
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy