SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ एकाष्टकाविधिवर्णनम् १६६ इमां वाचं वदन्त्येव रे रे पुत्र वयं त्वया। कृताः कृतार्थाः संतृप्ताः सुखनित्या कृतास्तराम् ॥ प्रापितास्तत्पदं विष्णोः सुमहच्चक्रपाणिनः । तस्मादितः परं भूयः कमैतत्पावनं शिवम् अतिप्रयत्नसाध्यं हि मा कुरुष्व महानपि । अस्मदथं कृतं साधो महत्तत्कृतकानसि ॥ महालयं तं पक्षाख्यं वदन्त्येवं सुनिवृताः । न संशयोऽत्र कर्तव्यः कमैतत्तादृशं महत्॥ पुनः पुनः प्रवक्ष्यामि तत्परं तादृशः पुनः॥ एकाष्टकाविधिः अष्टकाख्या द्वादश स्युः पैतृकानित्यनामकाः । माघकृष्णाष्टमी पुण्या ज्येष्ठया या युता भवेत् । सैकाष्टका प्रकथिता महती श्रुतिचोदिता। तस्यां सायमपूपं चतुश्शरावैकसंमतम् ॥ अष्टाकपालसंयुक्त कृत्वा होमं विधाय च । शिष्टः स ब्राह्मणेभ्यो वै प्रदेयो भक्षणाय वै ॥ ते स्युः श्राद्धस्य भोक्तारः परेधु स्तत्परं पुनः । कृत्यं सर्व विधायैव परेा स्तानिमन्व्य वै ॥ ब्राह्मणान् विधिना शिष्टान् उत्तरानखिलान्मनून् । मुखान्ते जुहुयादेव प्रतिष्ठाप्य हुताशनम् ॥ आज्याहुतीश्च सर्वेषां वपादीनां विधानतः । जुहुयादेव विधिना होमशेषं च तत्समम् निर्वयं पश्चान्मध्याहृ मासि श्राद्धविधानतः । श्राद्धं कुर्याद्विधानेन न चेद्भूयो विधानतः॥ दध्यञ्जलाख्यकं कृत्वा रात्रौ भक्तथा ततः पुनः। यथापूर्व श्राद्धमानं कुर्यादेव विधानतः ॥ एवं कृते तु सर्वेषामष्टकानां तु यत्फलम् । तत्फलं समवाप्नोति सत्यमेतन्मयोदितम् ।। लघूपायोऽद्य भवतां मयायं प्रतिपादितः । गवालम्भो निषिद्धोऽत्र योऽयं सूत्रप्रचोदितः
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy