SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १६८ मार्कण्डेयस्मृतिः द्वादशी तु यतीनां स्यात् प्रशस्ता पितृकर्मणि । तस्मात्तस्यां तु तत्कर्म तेषामेव परा स्मृता ।। सुमजलीना नवमी प्रशस्ता परलोकदः । तस्यामेव ततः कार्य सकृन्महालयाख्यकम् ॥ अत्यन्तासाधारणेन पूर्वोक्तानां तु ताः स्मृताः । तिस्रोऽपि तिथयः सद्भिश्चतुर्थी चापि केवला ।। रिक्तानां प्रथमा यस्मात् तादृशे कर्मणि त्वियम् । न मुख्यैवेति विशेया तस्यां कर्ता तु केवलम् ।। रिक्तत्वमेव प्राप्नोति तस्मात्ता संपरित्यजेत् । शेषाः स्युस्तिथयः सर्वाः दश ख्याताः सुपावनाः ।। सकृन्महालयाख्येऽस्मिन् सर्वेषामपि सन्ततम् । पितुर्पततिथिः पुण्या तस्मिन् कर्मणि केवलम् ।। बिना चतुर्दशी दर्श द्वादशीमपि वच्मि वः। यद्यतास्तिथयः स्युर्वं गृहिणोऽस्य तथाविधाः ।। चतुर्दशी द्वादशी च दर्शस्तेषु न चाचरेत् । सकृन्महालयश्राद्ध पितृश्राद्धतिथिः परः। अत्युत्तम इति ख्यातः आचारश्च तथाविधः । सर्वदेशेषु पुण्येषु क्षेत्रेषु विविधेष्वपि । सर्वाभ्यहितकमैतत् पितृणामतितृप्तिदम् । अतिप्रशस्तं विज्ञोयं पितृणामतितृप्तिदम् ।। वृषोत्सर्जनमत्यन्तं परलोकैकहेतुकम् । गयाश्राद्धं तथा ज्ञेयं गौरीदानं च तादृशम् ।। सन्महालयश्राद्धं यमयज्ञः सुपावनः । ततोभयमुखीदानं पनसागप्रपालनम् ॥ तत्प्रतिष्ठापूर्वकेण तज्जन्यफलदानकम् । तत्प्रीत्यै शुद्धचित्तेन समानानीति चोचिरे । महालयश्राद्धफलम् यः पश्चवारं मतिमान् कुर्यात् पक्षमहालयम् । तस्य नन्दन्ति पितरः सर्वान् कामांस्तु पुष्कलान् ।। प्रयच्छन्त्येव भूयश्च कृतार्थास्ते मुदा युताः । संघीभूयास्य तु स्वप्ने समागत्यैनमीदृशम्
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy