________________
मार्कण्डेयस्मृतिः। नानादैवतकः प्रोक्तः नानाकारुण्यसंयुतः । सोऽयं द्वयं प्रयत्नेन प्रकर्तव्यं विशेषतः ॥ पितृगामपि सर्वेषां तृप्तये तादृशो न तु । नित्योऽयं किल षड्देवः स तु चेत्सर्वदेवतः।।
सर्वाश्च देवता एताः विशेया नित्यतर्पणे ॥
महालयनित्यतर्पणदेवताः आदौ पिता तथा माता सापत्नी जननी तथा ।
मातामहारसपत्नीकाः आत्मपत्नी त्वनन्तरम् ।। सुतभ्रातृपितृव्याश्च मातुलास्सह भार्यकाः । दुहिता भगिनी चैव दौहित्रो भागिनेयकः पितृष्वसा मातृष्वसा श्वशुरो गुरुरर्थिनः । स्वामी सखा तथाचार्यस्तथैव स्यालकः परः पितृतीषैस्तर्पणीया देवताः पितृरूपकाः । कारुण्या इति विशेयाः एतेषां प्रतिवत्परम्॥
महालयाख्यं तच्छ्राद्धं कर्तव्यं श्रेय इच्छता ।
___ एतेषां तादृशे श्राद्धे अर्घ्य पिण्डं पृथक् पृथक् ।। प्रदेयमेव विधिना न चेहोषो महान् भवेत् । आदौ संकल्पकाले तु सर्वानेव समुञ्चरेत् वसुरूपत एव स्यात्तदुच्चारणमप्युत । तदा तदा कर्ममध्ये समुच्चारणके परे ।
संप्राप्ते तु तदातीव कारुण्यानिति तान् वदेत् ।
अर्ध्यकाले पिण्डकाले नामगोत्रादिभिस्तराम् ॥ समुच्चरणमेव स्यात् तयोभिन्नस्थलेषु चेत् । यथारुच्येव तु परं कारुण्यानित्युदीरणम् तदा किमर्थमित्युक्त तत्प्रयोगस्य वै तदा । सौलभ्यायेति कथितं पुनस्तेषां तथैव हि ।।
आवाहनप्रकारः
सौलभ्यायैव वरणं विप्रसंग्रह एव च । शक्तौ सत्यां एकैकस्य चैको ब्राह्मण एव हि ।। अशक्यविषये सर्वविप्राणामेकविग्रहे। आवाहनं सौकर्याय तस्मिन्महालये पुनः ।। पाक्षिके प्रथमे ये स्युः दिवसे ब्राह्मणाः स्मृताः । त एव सर्वपक्षस्य विनैव वरणं पुनः ॥ आवाहनंच निखिलं कार्यमेवेति साश्रुतिः। अयमेकप्रकारः स्यादक्षिणा च तथा स्मृता ।।