________________
१६५
महालयश्राद्धप्रशंसावर्णनम् चैत्रमासतृतीयादौ पौर्णमासी च तद्वयम् । तन्मासेऽत्र प्रकथितं न वैशाखे ततस्तदा । ज्येष्ठमासाष्टमी ज्ञेया दशम्याषाढकी तथा । पूर्णिमा च तथा शेया श्रावणस्याष्टमी परा कृष्णपक्षस्य विज्ञेया ततो भाद्रपदस्य च । तृतीयेति प्रकथिता प्रशस्ता पितृकर्मणि ॥ आश्वयुक्शुक्लनवमी द्वादशी कार्तिके सिता । पूर्णिमा शुक्लपक्षस्य मार्गशीर्षे तु नैव हि ॥
पुष्यस्यैकादशी शेया माघमासस्य सप्तमी ।
पूर्णिमा चाप्यमावास्या फाल्गुने च प्रकीर्तिते ॥ युगादयस्तु विशेयाश्चत्वारः शास्त्रवर्त्मना । नभस्यापरपक्षोऽथ महालय इतीरितः॥ पक्षसंख्यैव निर्दिष्टाः तेहि पञ्चदशैव हि । केचित्कृष्णप्रतिपदं क्षीणसोमत्वसाम्यतः॥
मासस्याश्वयुगाख्यस्य संगृह्य किल केवलम् ।
महालयास्ते कथिताः सम्यक् षोडशसंख्यया ॥ इत्यूचुः किल केचित्तु परे ते दशसंख्यया। जगदुः केचन पुनः पञ्चैवेत्यपरे तथा । त्रयस्त इति भूयश्चाप्येकमेवेति केचन । प्रापणच्छिन्नत्वेनैव केचित्परं स हि ॥
महालयश्राद्धप्रशंसा पक्षो महालयाख्योऽसौ पितृणामतिवल्लभः । अत्र दत्तं हुतं जप्त तप्त चोपकृतं कृतम् ॥ एकैकं कोटिगुणितं अक्षय्यफलदायकम् । तस्मात्सर्वेण नितरां देहि मात्रेण भक्तितः ।।
कार्य महालयश्राद्धमन्यदा तेऽखिलास्तराम् ।
शपन्त्येनं दुःखतप्तास्तस्मात्तच्छ्राद्धमेककम् ।। कुर्यादेव विधानेन न चेद्दोषो महान् भवेत् । सद्यः कुलं नश्यति च श्रीरप्येषा परा भवेत् दिने दिने गयातुल्यं भरण्यां गयपस्तथा । दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः ॥ द्वादश्यां शतमित्याहुरमायां तु सहस्रकम् । एतन्महालयश्राद्धं षड्दैवत्यं प्रकीर्तितम् ।। पक्षो महालयस्त्वेकः स मुख्य इति कीर्तितः। सकृ देव च गौणःस्यात्(तत्)पक्षोऽपि केवलम्
तथैव कथितः सद्भि द्विविधश्चेति सूरिभिः । षड्दैवत्यस्तत्र पूर्वः नित्यश्चापि तथा मतः ।।