________________
१६४
मार्कण्डेयस्मृतिः पर्याप्तान्यखिलानां च लोभशाध्यविवर्जितः।
सर्वेषामपि बालानां ज्ञातीनां स्वस्य केवलम् ॥ वनितानामागतानां स्वच्छ (१)शतस्य वै। यथावात्यन्तपर्याप्तानि भवेयुस्तथातराम् संपादयेच्छुद्धमनाः ततः कुर्याञ्च पैतृकम् । तेन ते पितरस्सर्वे तद्बालाद्यतिभक्षणात् ॥ स्वपुत्रयजमानस्य तृप्तिमुक्तिविशेषतः । अतितृप्ता क्षुन्निवृत्ताः प्रयुजन्त्याशिष एव च ॥
तमेनं तनयं दृष्ट्वा लोकान् तानुत्तमान् शुभान् । गच्छन्ति तस्माद्भूयिष्टवस्तुभिस्तत्समाचरेत् ॥ शुद्धने मनसा भक्त्या शुद्धद्रव्येण सन्ततम् । कर्तव्यानि ब्राह्मणेन श्राद्धानि सुबहून्यति ॥
षण्णवतिश्राइसंख्यानिर्णयः दर्शा द्वादशसंख्याकाः पाताः स्युस्ते त्रयोदश । धृतयश्च तथा शेयाः मनवश्च चतुर्दश
युगादयश्च चत्वारः कान्तयश्चापि कीर्तिताः ।
आदित्यसंख्यया ताश्च विशेयाः स्युविचक्षणैः ।। महालयाः पञ्चदश अष्टकान्वष्टकाः पुनः । संख्यया द्वादशैव(स्युः)गजच्छाया च काचन
मासि श्राद्धानि शेयानि द्वादशैवेति केवलम् । .
पित्रोः श्राद्धद्वयं चापि श्राद्धानि स्युः स्वभावतः ।। अष्टोत्तरशतान्येवं चोदितानि मनीषिभिः । श्राद्धेष्वेतेषु सर्वेषु क्रान्तयो धृतयस्तथा ।
ते पाताश्चापि ( ? ) गजच्छायापि सर्वशः। । न नित्याः कथिताः सद्भिरक्लप्तास्ते यतस्ततः॥ तद्भिन्नान्यखिला शेयाः क्लुप्ता इति विशेषतः ।
क्लप्सत्वं चापि कथितमनिशा व्यभिचारतः ।। एककालागमत्वं हि दर्शानां तत्र वच्मि वः। सर्वेषामपि चैत्रादिमा (?) वहि ।। फ्लप्तत्वं कथितं सद्भिस्तेनैषां नित्यता स्मृता। मन्वादीनां तथैव स्यात्सर्वेषां क्रमतस्तथा