________________
१६२
मार्कण्डेयस्मृतिः महात्मानः प्रोचुरिति तण्डुलक्षालनोदकम् । श्राद्धात्पूर्व गवां पानकार्यार्थ न नियोजयेत् ॥ काकास्पृष्टं यथा तत्स्यात् गोपयेत्तावदेव हि ।
अपि मार्जाल(र)संस्पृष्टं यावद्ब्राह्मणभोजनम् । विप्रभुक्तिश्चात्र परा तदनुप्रजनात्मिका । सर्वकार्येष्वेवमेव मर्यादाशास्त्रसंमता ॥
धान्यावहनने तस्मिन् चूर्णिता येऽपि तण्डुलाः । फलीकरणकाश्चापि पालनीयाः प्रयत्नतः॥ गवाद्यर्थेन योज्याश्च युक्ता यद्यभवन् तदा ।
न पैतृकार्थे ते योज्याः अपि धान्येषु तेष्वपि ॥ पित्र्यर्थत्वेन क्षिप्तेषु समुद्धृत्यान्यकार्यतः । नियोजयेन्नधान्यं तद् विनियुक्त भवेद्यदि
कुप्यन्ति पितरः सद्यस्तस्मिन् शिष्टं तु तत्परम् । स्वेनैव भुक्तं यदि ते स्वशिष्टं स्वसुतादयः॥ अश्नन्ति किल तेनास्मत्तृप्तिरेवेति सादरम् ।
स्वभोजनसमं सम्यक् मन्यन्ते प्राप्तकामकाः ॥ एवमन्यत्र भूयश्च विनियुक्तं तदीयकम् । स्वभुक्तिशेष स्वीयं हीति मन्यन्तेऽतिहर्षतः
स्वभुक्त्यनन्तरं ते वै पितरः क्षुद्विवर्जिताः । स्वपुत्रं च वदीयांश्च क्षुधानि संस्थितान् तदा ॥ विलोक्य कृपया युक्ता अद्यास्माभिर्यथा बहु ।
चर्वितं सुखमाकण्ठं तद्वदेतैरपि स्फुटम् ॥ कर्तव्यं चर्वणं त्वद्य हीति वात्सल्यसंयुताः। दूयमानेन मनसा तिष्ठन्त्येव ततः किल ।
तत्प्रीत्यै स्वजनैः सर्वभक्ष्यभोज्यै तान्वितैः । भुञ्जीयाद्यावदातृप्तिर्न चेत्ते दुःखितास्त्वति ॥ भवेयुरेव तस्मात्तु श्राद्धान्ते श्राद्धकृच्छुचिः। तच्छिष्टानखिलानद्यात्स्वबालानां च कांक्षितम् ।।