________________
१६१
श्राद्धविधानवर्णनम्
श्राद्ध पाकानह कृत्यम् पात्रादीनां क्षालनं च शलाटूनां विशेषतः । खण्डनादिक्रियाणां च समीकरणमञ्जसा॥ जलेष्मानयनं सर्वसूपतण्डुलधावनम् । तथा तत्क्षालनं चापि जलसंबन्धपूर्वतः ।। (त)दग्नियोगकार्य तद्वर्जयित्वाखिलं मनुम् । सिक्तधान्यादिपिष्टानां करणं केचिदूचिरे॥ फलादीनां तथा भूयः समीकरणखण्डने। प्रशस्तेति यमः प्राह गुडताडनमेव च ॥ अपक्कानामतप्तानां वस्तूनां स्पर्शनं तथा । तत्तद्वस्तुविशेषैश्च योजनं केचिदूचिरे । गन्धाक्षतादिकरणं सगोत्रैककृतं परम् । धान्यान्यन्यानि वस्तूनि संगृह्णाति पितॄन् प्रति यदातदादिपितरः सुस्वस्था हृष्टचेतसः । तिष्ठन्त एव नितरां इव ते कृतभोजनाः ।। तस्माच्छाद्धदिनात्पूर्व अब्दार्थत्वादिकालतः । पूर्वमेव प्रयत्नेन संगृह्णीयात्वशक्तितः॥
तत्संभारान् यथाकामं तत्तृप्त्यर्थ महामनाः । शक्तथभावे तु नितरां तच्छ्राद्धीयकथाः शुभाः ।। तच्चरित्राणिचित्राणि स्वकृतास्तन्निमित्ततः।
क्रियास्तास्तास्तत्र तत्र कथयन् स्वाप्तबन्धुभिः ।। नयेहिनानि शनकस्तावन्मात्रेण ते परम् । तत्तस्वीयकथामात्रमुदिताः शान्तमानसाः।।
अस्मासु कुरुते भक्तिमिति निश्चित्य मत्सुतः ।
अस्मच्छाद्धं च विधिवत्करोत्येवेत्यतस्त्विति ॥ निस्संशयेन वर्तन्ते ततो नित्यमतन्द्रितः । वस्तुसंपादनाशक्तः प्रभवेत्तत्कथापरः ॥ मासद्वयात्पूर्वमेव धान्यावहनसंशुचौ । स्थले सम्यक् कारयीत संगृह्णीयाच तण्डुलान् । शुदकुम्भकुम्लेषु गोपयेच्च स्वशक्तितः । मासमात्रात्पक्षमात्रादथवात्वादिनाष्टकात् ।। धान्यावहननं सम्यक् कारयीतैव पूर्वतः । दिनत्रयाच्छन्त्यभावे पूर्वस्मिन् दिवसेऽपि वा संपादनं तण्डुलानां कुर्यादेव विधानतः । सर्वाभावे तु सुतरां: येनकेनाप्युपायतः ॥
सद्यो वा तण्डुलान् सम्यक् दारिद्रयापत्सु संकटे । राष्ट्रक्षोभे जनक्षोभे नियमो नेति वेदिनः ।।