SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६० मार्कण्डेयस्मृतिः पत्नीशब्देनैव सर्वाः भ्रातृपल्यः प्रकीर्तिताः । स्नुषास्तत्तुलिताः सर्वाः स्वगोत्रा उत्तमा मताः॥ पितृष्वसा मातृष्वसा भगिनी मातुलान्यपि । श्वभूमुख्यास्तथा चान्याः मध्यमाः परिकीर्तिताः ।। यद्यप्यासामन्तरङ्गत्वमस्त्येव तथापि हा । एता यतो भिन्नगोत्रास्ततः स्युर्मध्यमा तथा।। सत्यो बान्धवा नूनं विज्ञातास्सच्चरित्रकाः। समान भाषा धर्मादिगुणिनो ज्ञातपौरुषाः॥ स्वचेतसोऽधिका श्रेष्ठा अनूचानकुलोद्भवाः । संभोज्यान्ना निर्विवादात् बन्धुतुल्या अबान्धवाः ॥ अधमाः कथिताः सर्वाः श्राद्धपाकाय शास्त्रतः। स्नुषापाकः पितृणां हि परमो मधुमत्तरः तदुर्लभेनाप्यपाकः तुलितस्तेन धर्मतः। पुत्रपाकः पौत्रपाकः नतृपाकस्तथाविधः।। भ्रातृपाकादिकास्सर्वे तुलिता एव केवलम् । उत्तमत्वेन निर्दिष्टाः पितृणां प्रीतिवर्धनाः ।। असंभवेस्नुषादीनां संभवे तान्परास्त्वति । सुमङ्गल्याश्च पुत्रिण्यः अनिवृत्तरजकस्ककाः अत्युत्तमा इति होयाः पाककर्मणि पैतृके॥ श्राद्धपाक्यनर्हाः भिन्नभाषाकृतः पाकः रण्डापाकश्च गर्हितः । शिवत्रिणीकृतपाकस्तु सर्वेषां मादको भवेत् ।। शिवत्रिणीदर्शनात्सर्वे निखिलाः पितरस्तु ते। एतत्कव्यं न गृह्णन्ति हव्यं देवाः जगुः पिताः॥ श्राद्धकर्मणि विडोयं भिन्नभाषाकृतं तु यत् । हालाहलनिभं तत्स्यात् पक्कान्नं तेन तत्त्यजेत् ये भिन्नभाषास्तैः सर्वैः श्राद्धकर्मणि केवलम् । लेपनं मार्जनं धूली (१) र्जनमेव च ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy