SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पतितस्य पौत्रण कर्तव्यवर्णनम् १६ वाचनीया न वाच्याश्च पावमान्यास्तथैव वै । भोजनान्ते च गायत्रीं नोचरेदेव सर्वदा ।। मधुत्रयं जपेन्नूनं नाक्षन्नमी महामनाः। पृथिवी ते मनुं नैव वदेत्तूष्णीममन्त्रकम् ॥ अन्नाभिमर्शनं कुर्यादेतत्ते लौकिकेन वै॥ पतितस्य पौत्रेण कर्तव्यम् शिष्टं सर्व समं ज्ञेयं तादृश्या मातुरप्युत । श्राद्धमेवं विधं कुर्यात् अन्यथा किल्बिषी भवेत् ॥ पितुः कुर्वन्नपि श्राद्धमेकोद्दिष्टविधानतः । प्रत्यब्दमेवंविधिना पुरा यत्तु यथाकृतम् ॥ पितामहस्य तच्छ्राद्धं सांगोपाङ्ग कसंयुतम् । यावज्जीवं तथा कुर्यात् न त्यजेद्यदि तत्त्यजेत् ॥ अधिकप्रत्ययवायी स्यात् तेन स्वकृतपुण्यतः । च्युतो भवनि तस्मात्तु तद्यथोक्त समाचरेत् ॥ तत्पुत्रास्तु ततो भूयः स्वपितुर्मरणात्परम् । त्यक्त्वा पितामहं पापं तादृशं रूपमास्थितम् ॥ प्रपितामहमुख्येषु पिण्डेषु त्रिषु तेष्वपि । त्रिधाकृतं पितुः पिण्डं योजयेरन्निति स्थितिः सपिण्डीकरणश्राद्ध द्वादशेऽहनि धर्मतः। तत्पुत्राश्च तथैव स्युस्तत्पुत्रा अपि तत्तथा ॥ मातुरप्येवमेव स्यात्ताहरुमातामहस्य च । एवमेव विजानीयात्सर्वत्रापि पुनश्च तत् ।। पाककर्यः तस्मात्पाकक्रियामात्रे श्राद्धकर्मणि सन्ततम् । प्रकी कथिता पत्नी मुख्यत्वेनैव शास्त्रतः ।। मातापितृव्यपनी च पितामहादिकास्तथा। शातिपल्यः संनिकृष्टाः न तत्तुल्याः प्रकीर्तिताः।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy