________________
क्रीताजयो
१५८
मार्कण्डेयस्मृतिः वस्य शाकत्रयं श्राद्ध माषसूपो विधीयते । तदभावे तौवरिकः समौद्गः सर्वथा मतः॥
क्रीताज्यमेव तस्यास्य न शरण्यं विधीयते ।
दक्षिणाभिमुखाबुक्तिः विश्वेषां वरणं परम् ॥ पितुः स्यावरणं पूर्व पूर्वमेवाङ्गतर्पणम् । न पश्चान्न परेद्य वर्वा श्राद्धकालस्तु संगवः॥
सायं वा विहितस्तस्मात्कुतपो न तु सर्वथा ।
न खड्गपात्रं स्वीकार्य तथा नेपालकम्बलः॥ विश्वेषामपि देवानां पितुस्तस्मिंस्तु कर्मणि । पादप्रक्षालनार्थाय मण्डलं पञ्चकोणकम्॥ एकमेव भवेन्नूनं स्वागतं नैव केवलम् । नाज्यपादाभ्यञ्जनं च पवित्रं च द्विदर्भकम् ।। देवार्थ कथितं सर्वैर्यत्तदेवात्र पैतृके । सदर्भत्रयतः कुर्याद्विकिरं नैव कारयेत् ।।
प्राणादिपञ्चकमनून् केवलानेव भोजने । क्रियमाणे जपेद्भूयात् श्रद्धायामितिप ञ्चकान् । वाक्यत्रयैकसुभगान् पवित्रानतिभावुकान् ।
न वदेदेव विधिना ते मन्त्राः किल पञ्च वै॥ सप्तविंशतिवर्णत्वात्सवच्छन्दोतिगो भवेत् । अनन्तरो महामन्त्रा एकोनविंशवर्णकः ।। तेनैतत्कथितसद्भिः विर्राजाकिंचिदूनकः। प्रराडिति समाख्यातः पितृणामतिवल्लभः।।
यथा वा प्रथमः प्रोक्तस्तृतीयोऽपि तथाविधः। चतुर्थपञ्चमौ चापि द्वितीयतुलितौ हितौ ॥ तथाविधाना मन्त्राणां नायं योग्यो यतो मतः । एतेनोत्तरमन्त्राश्च पञ्च तेऽन्यतिपावकाः ॥ . अत्यन्त भावुकाः शर्मदायकाः कृतिवल्लभाः।
उत्तरापोशनात्पश्चान्न वक्तव्या महत्तराः ॥ न हविः प्रोक्षणं कुर्यादग्नौ करणकर्मणि । कुर्याद्धस्तेन होमं तं मेक्षणेन न सर्वथा ।। देवपूजाद्वैश्वदेवब्रह्मयज्ञात्परं तराम् । तादृशस्य क्रिया कार्या नान्नसूक्तजपस्तथा ।। तस्याभिश्रवणं सर्व राक्षोनं केवलं स्मृतम् । कृणुष्वपाज इत्येव नान्ये ते वैष्णवाः पराः