________________
मार्कण्डेयस्मृतिः वरुोण वेष्टनं प्रोक्त प्रादक्षिण्यक्रमेण तु । द्वित्रिवि वेष्टनं स्यात् विधिः स्यात्तदनन्तरम् पश्चात्कच्छपुरः कच्छदशाकच्छादिवर्जितम् । बिभृयाद्वसनं नित्यं यदि कच्छादिसंयुतम् ॥
बिभृयाद्वसनं वर्णी गृहीवद्गर्वमास्थितः। निन्द्यो दण्ड्यो वर्जनीयः स सभासु विचक्षणैः॥ अवकीर्णी समः प्रोक्तः न भिक्षायोग्य उच्यते ।
गृही वस्खधरो वर्णी यदि भिक्षार्थमागतः॥ संताड्य सद्य एवस्याद्यः कैश्चिदृष्टमात्रकः । नास्मै दद्यात्तथा भिक्षां यथाध्ययनवर्जिते त्यक्त्वैव वेदाध्ययनं भिक्षया यस्तु केवलम् । अटन् कुक्षिभरो वर्णी गृहिभिर्धर्मतत्परैः
बोधनीयः श्वः प्रभृति भिक्षार्थ त्वं वृथैव रे। मुक्त्वा तु वेदाध्ययनं न समागच्छ मग(गृोहान् ।। तथाप्ययं यदि पुनः समागच्छेज्जडाकृतिः।
न संभाष्यः पिधायैव कवाट निर्दयं भृशम् ।। तत्पश्चात्तत्पुरस्ताद्वा वेदाध्यायी शुचिर्यदि । समागत्य बहिरि भिक्षा देहीति सुस्वरम् समाक्रोशेत्तस्य शीघ्र समागच्छेति तं स्वयम् । दद्यादिक्षा पूजयित्वा मधुरैर्वचनैरति ॥ तच्छीत्कारेभीवयेच पुनः शाकादिकंरसम्। तस्मिन् पश्यति दद्याच्च वेदिनेऽस्मै विचक्षणः भुक्तिकाले ब्रह्मचारी मात्रे दत्तं तु साधकम् । अन्नस्य शाकं लवणं सूपभक्ष्यफलादिकम् अत्यल्पमणुमात्रं वा तदानन्त्याय कल्पते । विद्यार्थिने वर्णिने ये कायदााय केवलम् (?)महौषधं वस्त्रां कौपीनं शयनाय वै । कटिं वा कंबलं वस्त्रां दास्यन्ति च नरोत्तमाः
बेदरूपी स भगवान् पुमान् नारायणो विभुः।
अत्यन्ततृप्तो निखिलान् प्रददाति मनोरथान् । न(ते)पोषणादन्योधर्मो लोकत्रयेऽस्ति कः। वेदाध्याय्येव वर्णी स्यान्न शास्त्रादिकृतश्रमः वेदाध्ययनशीलस्य कण्ठान्नाभेरथोर्ध्वतः। यः प्रदेशः स तु किल शुष्कीभूता भवेत् क्षणात् तद्दुःखपरिहाराय यथायं स्यात् क्षुधार्थया । तृष्णया च परित्यक्त स्तथा प्रशमयेच्छतम् अन्नाज्यदधिसूपाद्यः तावन्माोण केवलम् । अश्वमेधस्य यत्पुण्यमवशाल्लभते खलु