________________
ब्रह्मचारिधर्मवर्णनम् नित्यैः नैमित्तिकैः काम्यैः कर्मभिः श्रुतिचोदितः ।
कामनारहिताः सन्तः यजन्ते श्रद्धयान्विताः॥ ब्रह्मार्पणधिया भक्ताः तज्ज्ञप्त्यै ब्रह्मवादिनः । यजनं गृहिणामेव धर्मोऽयं वनिनामपि ॥ न यतीनां वर्णिनां च यतिनां ब्रह्मचिन्तनम् । श्रवणादिक्रमेणैव वर्णिना सन्ततं परम्॥
ब्रह्मचारि धर्माः वेदाध्ययनमेव स्यादनिकायं च कालयोः । वासो गुरुकुलेष्वेव नित्यं भिक्षाटनं परम् ॥ बन्धूनां सूतकं तस्य जननान्मरणादपि । न भवेदेव नितरां पित्रोस्तु मरणे पुनः ।। सूतकं तावदेवस्याद् यावत्तक्रियते शुभम् । पिण्डदानादिकं कर्म तत्परं भिक्षयैव हि ॥ प्राणयात्रा प्रकुर्वीत तथाप्येषु दिनेषु चेत् । कुर्यादध्ययनं नैव वासो गुरुकुले भवेत् ॥ एवं मातामहस्यापि तत्पल्याश्च विशेषतः । पितृव्यस्याप्यपुत्रस्य तत्पन्या भ्रातुरेव च ॥ अप्रजस्य च तत्पल्याः सपत्नीमातुरेव च। तात्कालिकं सूतकंस्यात् पितृश्राद्धदिनेऽप्ययम् भैक्षेण पितृशेषं तद् भुञ्जीयादिति तत्क्रमः॥
यतिधर्माः मातुर्माां यतेधर्मः कर्मणः करण स्मृतम् । तनयान्तरराहित्ये चयनान्तं च तत्परम् ॥ केचिदाहान्तमित्यूचुः तद्दिने केवलं पुनः । करपात्रोण दशेऽपि प्राणयात्रा विधीयते ॥
तस्यापि सूतकं तावत् यदावा कर्म नान्यथा ।
वर्णिनः सूतकाभावः तद्भिक्षानिरतस्य सुः (तु ।। तादृशं नियमं त्यक्त्वा विद्यमानस्य सूतकम् । भवेदेव न सन्देहो वणिनोऽपि निरन्तरम्
पुनमचारिधर्माः भिक्षाचर्या च तद्धर्मः संतताध्ययनं तथा । नित्यं गुरुकुले वासो वह्निकार्य च कालयोः॥ एतान्येव प्रधानानि चैतत्तुल्यानि कानिचित् । अजिनं मेखलां दण्डः कौपीनं शुद्धमम्बरम्
मेखला सा त्रिवृत्प्रोक्ता मौली विरचिताद्यथा। कटिसूत्रं तथान्यच जन्मादि द्वादशाब्दकात् ।।