________________
१५६
मार्कण्डेयस्मृतिः
ब्राह्मणभोजने आपोशनप्रदाता विप्रभोजनमाऽपि तदापोशनपाथसः । स्वयमेव प्रदाता स्यान्मुख्योऽयं कल्प उच्यते
जामितायां स्वस्य चेत्तु तदात्री सहधर्मिणी।
पुत्रपौत्रश्च तत्पन्या शिष्यत्विग्बन्धुरातयः॥ तत्प्रदातार उच्यन्ते यथाश्राद्धं तदा तदा । श्राद्धकर्तरि दाढणेन विद्यमानो तदातराम् तत्पनीपैतृकेविप्रहस्तआपोशनशंबरम् । न दद्यादेव नितरां यदि दद्यात्तु सा पुनः॥ अपुत्रिण्यथवा नित्यदरिद्रा दुर्भगा भवेत् । तस्माच्छाद्ध सर्वेषु स्वयमापोशनाम्बु तत्।। विप्रहस्ते प्रक्षिपेत्तु श्राद्धकर्तेव पात्रगम् । पात्रान्तरस्थितं तोयं चण्डालत्वं गतस्य तत् ।। मद्यपत्वैकदुष्टस्य भ्रूणजघ्नस्य पापिनः । सर्वसंकीर्णदुष्टम्य जनप्रामैकविद्विषः । अतिदुष्टस्य तुच्छस्य गुरूतल्पगतस्य च । स्तेयिनोचौर्यजनकमातुलनस्य केवलम् ॥
पितृव्यस्य पितुर्वापि तादृश्या मातुरेव वा।
द्वादशाब्दात्परं मृत्योः कृतकार्यस्य शास्त्रतः॥ एकोद्दिष्टत्वेनतरां विहितस्य सदैव हि । पैतृकस्य प्रत्यब्दत्वेनैव प्राप्तस्य तस्य हि ॥ द्वयोरपि ब्राह्मणयोः देवे पित्र्ये च संस्थयोः । हस्तयोरन्यपात्रस्थं जलमापोशनाय वै ॥ प्रदेयमन्यहस्तेन न स्वहस्तेन कर्म तत् । तादृशं कथितं सद्भिरिति वेदानुशासनम् ।। अयं भावः प्रकथितः पुराविद्भिर्महात्मभिः । पुत्रस्य जननात्पश्चात्पिता दुर्बुद्धितो यदि
चण्डालो यवनो भिल्लो जायते स्वयमेव वा॥
यस्य पिता चण्डालत्वादिकं प्राप्तस्तधर्माः परपीडादिना वापि बलाद्वा कामकारतः । पूर्वजातस्तत्तनयो निर्दुष्टस्सच्चरित्रकः ।। तेन सर्वोिपनीतो न संकीर्णश्च कैरपि । कृतनित्यक्रियः सम्यक् कृताध्ययन सक्रियः जातः परं मृतस्तातस्तादृशो यवनात्मकः । मृतौतस्यास्य पुत्रस्य नाशौचं नोदकक्रिया ।
यदा प्रभृति स भ्रष्टस्तदा द्वषः स्वयं परम् ॥ तत्कर्तव्यानि सर्वाणि पैतृकाणि विशेषतः । कुर्यादेव विधानेन न चेद्धर्मादयं तराम् ॥